SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ १२ विक्रांतकौरवे निष्पन्देस्तिमितेक्षणः क्षणमसौ संजातकौतूहलः प्रादुर्भूतनितांतविस्मयरसप्रस्मेरगण्डस्थलः । व्यापारांतरशून्यमूढकरणग्रामस्तदैवान्वभूत् कामप्याहितमोहरुद्धहृदयामंतर्व्यथां मादिनीम् ॥ १९॥ विशारदः--ततस्ततः । नंद्यावर्तः-ततश्च । किमकृतकिमवादीत् कीदृशः कीदृशोऽभूत् कुरुपतिरिति वक्तुं व्यक्तमतन्न विद्मः । व्यर्धित विधुरसत्त्वः कौतुकस्तब्धपक्ष्मा निगलितमिव तस्यां केवलं नेत्रयुग्मम् ॥ २०॥ विशारदः–अहो तथाविधानामप्यतिविधेयं धैर्यस्खलनमिति यत् सत्यमशरणं सत्त्वं । सखे ततः । नंद्यावर्तः–तथा व्रजंती काशीराजपुत्री । अथ सपदि यदृच्छाबद्धलक्ष्यां वलक्षद्युतिशबलितपातां कौरवे गौरवेण । न्यधित दृशमपांगासीगनी स्निग्धमुग्धां कुवलयदलदामशामलां कोमलाङ्गी ॥ २१ ॥ विशारदः-तदेतदुन्मिषितोन्मादनं यदुत कामयमानस्य पुंसः प्रेयस्यां सह नयनसभेदः । ततः । नंद्यावर्तः–अथ तस्यां. प्रथमतरानुभूयमानमन्मथरसमंथरितविभ्रमायां तिरोहितायां क्रमेण काशीराजसुतायां कौरवेश्वरस्तन्मार्गदत्तदृष्टिरित्थमभूत् । १ चलनराहियेन स्तब्ध । २ इंद्रियसमूहः । ३ मन्मथसंबांधनीं । ४ व्यधात् । ५ अभिवृद्ध । ६ मिश्रणं । ७ मंद।
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy