SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽङ्कः। मूढ इव विलिखित इव उत्कीर्ण इव विशीर्ण इव मुषित इव आविष्ट इव दृत इव दीन इव। विशारदः-अहो अतिप्रसक्तं । अथवा एतदपि संभाव्यत एव, न खल्वंतर एवावस्थानं निपंततः प्रस्तरस्य । ततः। नंद्यावर्तः–ततश्च मया हस्ते गृहीत्वा देव दृष्टैव सर्वतो वाराणसीति, बलानिर्बध्यमानः प्राग् गृहीतामपि ताम्बूलवीटिकामनिच्छाशिथिलेन हस्तेन मम हस्ते विसृज्य शून्यांतःकरण एवापरिक्षितपदन्यासः विर्स - स्थुलया गत्या तदेव जीर्णोद्यानमासाद्य आरूढतुरंगमः । सार्धमस्माभिः पुनरिहागतः। विशारदः-ततः। नंद्यावर्तः-आदिश्यमानो गोपयितुं निषिद्धाशेषपरिजनः प्रविष्टोऽभ्यंतरं अंतरं च मार्गायासादत्रैव स्वपन्नार्यसौधांताकस्तदागमनं ज्ञात्वा सत्वरमुपस्थितः । . विशारदः-ततः । नंद्यावर्तः–ततश्च सौधातकिं हस्ते गृहीत्वा किमपि वक्तुकाम इव शयनमंडपिकां प्रविश्य पर्यकिकामलंकृतवान् । विशारदः-प्रायेण तद्दर्शनवृत्तान्तमेव आत्मनि सोढुमक्षमस्तस्मै विवक्षति। नंद्यावर्तः-वाढं तथैव । विशारदः–युक्तमेव प्रियसुहृदे स्वानुभूतं निवेदयितुं । सखे गच्छत्वेतत् । एहीदानी गृहं गत्वा कांचिद्वेलां विश्रमिष्यावः । नंद्यावर्तः–यदाह वयस्यः । (परिक्रम्य निष्क्रांतौ) १ शिलायाः। २ निनोनत। ३ विदूषकः । ४ सुलोचनायाः । ५ विदूषकाय ।
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy