SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ विक्रांतकौरवे १४ शुद्धविष्कंभः। (ततः प्रविशति राजा विदूषकश्च ।) राजा-(दृष्ट्वा च तामद्भुतदर्शनां किमप्यन्तर्विस्मयमानो मनस्यकार्षीत्) इयं चेत् सृष्टा स्यादमृतनिधिनैवेन्दुवदना कथं क्लाम्यत्कांतिः सृजतु स इमामस्थिरकलः । अथैनां कामश्चेत् प्रकृतिललितः स्रष्टुमुचितः स्वसत्तायां कोन्यः प्रथममवलंबोस्य भवतु ॥ २२॥ विदूषकः-भो वैअस्स किं णु खु सा जह सुणिज्जइ रूवसोहग्गेण तह एव्व परमत्थदोवि। राजा-वयस्य यथाश्रुतमित्यल्पमिदमुच्यते । सा खलु । शंगारस्य गरीयसी परिणतिर्विश्वस्य संमोहिनी विद्या काप्यपरा परा च पदवी सौन्दर्यसारश्रियां । उद्दामो मदनस्य यौवनमदः कुल्यारतिस्रोतसां केलिविभ्रमसंपदामविकलो लावण्यपुण्यापणः ॥२३॥ विदूषकः-तेणे हि जुत्तं एव्व मज्झमलोअस्स अलंकरणिं सुलोअर्णि वण्णोत्ति लोओ। राजा-वयस्य अपश्यन् कः प्रत्येति । सा हि । शीतांशोरविनिसृता नयनयोराल्हादिनी चंद्रिका द्रागंतर्दधती मदं च मदिरातंत्रैरनिवर्तिता। पुष्पैरयथिता निसर्गललिता माला मनोहारिणी जीमूतादकृतोद्गतिः स्थितिमती विद्युत्समुद्योतिनी ॥२४॥ १ भो वयस्य किं नु खलु सा यथा श्रूयते रूपसौभाग्येन तथैव परमार्थतोपि । २ तेन हि युक्तमेव मध्यमलोकस्यालंकरणां सुलोचनां वर्णयति लोकः । ३ व्यापारैः।
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy