SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽङ्कः । १५ विदूषकः - अहो' अचेअरं । राजा — अपि च । सा समग्रेन्द्रियग्रामसमाल्हादिनी पुनरित्थमुत्प्रेक्ष्यते । गात्रे चंदनचर्चा मुखे सुधा वकुलपरिमलो घ्राणे । परिवादिनी श्रवणयोरीक्षणयोः शारदी ज्योत्स्ना ॥ २५ ॥ विदूषकः - ऐसा सीमा पसंसाओ । राजा - तामेव पुनस्सकौतुकं च बहुमानं च सानुरागं च निर्वर्णयतः स्मरशरनिकरनिकृतसत्त्वसारस्य प्रतिक्षणमंतर्विशीर्यमाणधैर्यावष्टम्भपारिप्लवहृदयस्य विवर्तमानदुर्वारमनोरथसहस्रदूयमानस्य ममाभूच्चेतसि । आघ्राणव्यवधायिना स्तनतटे किं चंदनेनामुना किं गाढं परिरंभमन्तरयता स्थूलेन हारेण वा । संधानेन कि मुत्तरीयसि च येनेच्छाविहारं दृशोयद्वा यत्स्पृहणीयमस्ति सुलभास्तस्यान्तराया अपि ॥ २६ ॥ विदूषकः - तदो' तदो । राजा- - ततश्व सहयायिनि जने कुतोप्यस्मदधिष्ठितायां दिशि व्यापारि - तदृशि स्वयमपि चलशफरी चारुलोचना तत्रैव यदृच्छया प्रचलमधुकरमालासदृशं दृशमदात् । विदूषकः - ऐसो एत्थ समस्सासो जव्वअस्सोवि ताए दिट्ठोत्ति । राजा- - ततश्च सखे । लज्जाशृंखलया मनाक् नियमितैस्स्मेरोल्लसत्तारकैः किंचित्कुंचितलोचनांतचलितैललोद्यतभ्रूलतैः । तस्याः प्रस्फुरदार्द्रकौतुकरसस्निग्धैरहं प्रेक्षितैरापीतश्चलितः क्षतो निगलितस्संतर्जितो निर्जितः ॥ २७ ॥ १ अहो आश्चर्य । २ एषा सीमा प्रशंसायाः । ३ ततस्ततः । ४ एषोत्र समाश्वासः यद्वयस्यापि तया दृष्ट इति ।
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy