SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ विक्रांत कौरवे विदूषकः - अहो महारंभो मयणसंरंभो । वअस्स तदो तदो । राजा - ततश्च सा यांत्येव तथा ममांतिकात् प्रत्याहृत्य सत्रपं नेत्रमग्रहस्तेन पाश्र्वसन्निहितमुद्धृत्य दर्पणं तमेव पुनस्संक्रामदस्मत्प्रतिच्छंदकसनाथं व्यधात् । राजा विदूषकः - अभिजादं दंसणोवाअविण्णाणं । तदो तदो । - स तु पुनस्तया दर्पणः । निर्वर्णितस्सस्पृहमीक्षणाभ्यां कपोलयोस्सादरमर्पितश्च । न्यस्तश्च भूयः स्तनयोः सुदत्या मुखेन कामं परिचुम्बितश्च ॥ २८ ॥ विदूषकः - अहो पडिच्छंदएवि तुह कासीराअउत्तिए बहुमाणो । १६ राजा - वयस्य । शैत्यने वा रुचिरता बहुमान तोवा मन्येत वा किमषि कारणमन्यदेव | संक्रातमत्प्रतिम इत्यथवास्तु तस्याःसंतर्पणोथ हृदयस्य स दर्पणोऽभूत् ॥ २९ ॥ विदूषकः - हो जाणीअदि एव्व एत्थ कारणं । तदो तदो । राजा - किंच सखे । प्रचलवलयमंदानादिना दंतपत्रं ― सुरचितमपि सख्याः संजयंती करेण । अकृत च सविलासं चारु हासोत्तराणि प्रविकशितकपोला जल्पितान्युत्क्षिपंती ( ? ) ॥ ३० ॥ १ अहो महारंभोमदनसरभः । वयस्य ततस्ततः । २ अभिजातं दर्शनोपायविज्ञानं । ततस्ततः । ३ अहो प्रतिच्छंदकेपि तव काशीराजपुत्र्या बहुमानः । ४ भवतु जानीयते एव अत्र कारणं । ततस्ततः ।
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy