________________
प्रथमोऽङ्कः।
१७
m
विदूषकः-अवंतीण्णो विअ तिस्सा वअस्से भावो ।
राजा-असंहार्य खलु मन्मथास्त्रमभिमतामनुरज्यतः पुंसः प्रत्यनुरागदानं । येनेदानीं। · स्निग्धैलितयंत्रणाविचलितैस्तस्याः कटाक्षेहितै
रीषत्प्रस्फुरिताधरोष्ठरुचकैस्सख्या समं जल्पितैः । मध्ये चोच्छ्रसितस्तनैर्विहसितैर्दतांशुनीराजितैः ।
कामः कामपि मे करोति मनसः कामं परामुकताम् ॥३१॥ विदूषकः-तदो' अ किं वुत्तं । ..
राजा-ततश्च नातिदूरमिव गते चतुरंगतयाने चतुरंतयानविन्यस्तैकहस्तारिणीमपरां सखीमभिभाषितुकामा किल तिर्यग्वलमानवलिकं विवलनवशनिबिडितकुचतटाभोगसंकुचितोरस्कमनातच्युतशिथिलस्तनांशुकं अंसभागावष्टब्धकपोलपालिकं सलीलत्रिकविवर्तनविश्लथकवरीभारालंकृतापरांसभागमपांगोत्संगपर्यस्तचिकुरलोचनं अर्धविस्रस्तकोत्पलचुंव्यमानभ्रूलतांतमसौ द्विगुणितोपधानावष्टंभनिहितैकहस्ता सविभ्रमदर्शितपूर्वकायकांतिकमनीया किमपि किमप्याभाषमाणा च तामंतरान्तरा च चोदयंती च मदंतिकं तरलतरतारसारोदरां दृशं दृश्यमानैव संसक्तमनतिचिरेण तिरोहिता काशीराजदुहिता। विदूषकः--तदो तदो।
राजा-ततश्च न जाने किमभूवं किमकार्ष किंवृत्तमिति केवलं पुनस्तन्मानिहितनिश्चललोचनः किंकर्तव्यतामूढः क्षणमस्थाम् । विदूषकः-अस्स तुहारिसाणंपि तारिसो धेरभंगोत्ति अच्चाहितं । राजा-वयस्य धैर्यभंग इति नैतावतापसरति । तदा खलु । १ अवतीर्ण इव तस्याः वयस्ये भावः । २ ततश्च किं वृत्तं। ३ ततस्ततः। ४ वयस्य त्वादृशानामपि तादृशो धैर्यभंग इति अत्याहितम् ।