________________
विक्रांत कौरवे
सत्त्वं विलुप्तमिव तप्तमिवांगमंगं धैर्य विशीर्णमिव दीर्ण इवांतररात्मा । चेतः प्रलीनमिव लीन इव प्रबोधे मानः प्रमृष्ट इव कुष्ट इवास्मि चाहम् ॥ ३२ ॥ विदूषकः - तदो' तदो ।
१८
राजा - ततश्चाहं
तमत्रायासिषम् ।
नंद्यावर्तेनारुध्यमानः शून्येन चेतसा यथाग
विदूषकः - अदो वैरं जाणीअदि एव्व ।
राजा - ( मदनावस्थामभिनीय ) सखे तद्दर्शनात्प्रभृति च । विस्रधस्य वचोपि नावतरति व्यामूढयोः श्रोत्रयोः संस्कारार्पिततन्मुखेक्षणसुखेनान्यद् दृशौ पश्यतः । बाह्यव्यावृतिनिर्व्यपेक्षमधुना प्रत्यङ्मुखं संकुचचेतस्तद्गुणचिंतनानियमितं मुह्यत्यकाण्डे मुहुः ॥ ३३ ॥ विदूषकः - भो वैअस्स ण जुत्तं पुण तुज्झे एव्वं णाम उज्झिदुं अखंतिसरं धीरतणं ।
राजा - (सांतस्तापं ) वयस्य सौधातके किं ब्रवीमि ।
संकल्पशत विधुरितो धैर्यपरिस्खलनजातवैलक्ष्यः । लक्षीकृतः शराणां निसर्गकठिनेन मदनेन ॥ ३४ ॥ विदूषकः -- भी वअस्स सुणाहि दाव जइ तारिसो वअस्से कासीराअउत्तीए दंसिदो भावे तदो अस्सासिदुं वेअ अत्तहोदोवि जत्त जत्तं ण एव्व
१ ततस्ततः । २ अतः परं ज्ञायते एव । ३ भो वयस्य न युक्तं पुनः तव एवं नाम उज्झितुं अखंडितप्रसरं धीरत्वं । ४ भो वयस्य शृणु तावत् यदि तादृशः वयस्ये काशीराजपुत्र्या दर्शितः भावः ततः आश्वासितुमेव अत्रभवतोपि यत्र युक्तं नैव संतपितुं । यतो दैवसंपादितः समासन्न एव तस्याः आत्मच्छंदवशानुवर्तनेन समाराधयिता मनोरथानां स्वयंवरोत्सवः ।