________________
प्रथमोऽङ्कः।
wwwwwwwwwww
संतप्पिदं । जदो देव्वसंपादिदो समासण्णो एव्व तिस्सा अप्पच्छंदवसाणुवत्तणेण समाराहइत्तओ मणोरहाणं सअंवरूसवो।
राजा-भवतु वा तथा भवतः यथा प्रतिभाति । तथापि न तावता संप्रति समाश्वासः । मम हि ।
तैस्तैर्मनोरथैस्तस्यामापतद्भिः कर्थितम् । . अतिवाहयितुं चेतो नालं कालकलामपि ॥ ३५ ॥
(नेपथ्ये वैतोलिको) . वैतालिकौ-विजयतां कौरवेश्वरः सुखाय सायंतनसमयो भवतु देवस्य। प्रथमः
उन्मीलनवमल्लिकांतरगलत्सौरभ्यसंवासिताः श्रांता या दिवसश्रियो हिमकणैर्घर्माम्बुकल्पैर्जडाः । पेया घ्राणपुरैः सुखेन सुतरामालिंगनीया भुजै
निश्वासा इव वांति मंदमधुना वाता वसंतश्रियः ॥ ३६ ।। द्वितीयः
सायं मज्जनशीतला मृगमदव्यालिप्तकंठाः स्त्रियः काश्चिन् नूतनमालिकामुकुलकैर्भारं दधत्यस्स्तनैः। प्रत्यग्रागरुधूपवाससुरभौ कुर्वैति चातिस्रजः केशांते रतिलास्यसंपद इव प्रस्तावपुष्पांजलिम् ॥ ३७॥ विदूषकः-(आकर्णितकेन ) भो वअस्स उडेदु दाव समासण्णा खु साअंतणसंझा।
(उत्तिष्ठतः) राजा:-कथमवष्टब्धा संरब्धमकरध्वजसमरोवेला । इयं हि ।
मनोरथशतार्तानां प्रोषितानां प्रमाथिनी। निशीथिनी जगजिष्णोर्मन्मथस्य वरूथिनी ॥ ३८ ॥ १ वंदिनौ । २ भो वयस्य उत्तिष्ठ तावत् समासन्ना खलु सायंतनसंध्या ।