________________
२०
विक्रांतकौरवे
विदूषकः-इदो इंदो।
( परिक्रामतः) राजा-(सोत्कंठम् )।
अपांगव्यासंगस्खलदलसविभ्रांतनयनं दरमोद्यइंतद्युतिदलितरागाधरदलम् । अविस्पष्टस्वेदं पुलकितकपोलं मृगदृशस्तदद्यापि स्पष्टं मुखमभिमुखं दृश्यत इव ॥ ३९ ॥
(इति निष्कांतौ) श्रीवत्सगोत्रजनभूषणगोपभट्टप्रेमैकधामतनुजो भुवि हस्तियुद्धात् । नानाकलाम्बुनिधिपाण्ड्यमहेश्वरेण ।
श्लोकैः शतैस्सदसि सत्कृतवान् बभूव ॥ ४० ॥ . इति श्रीगोविन्दस्वामिनस्सूनुना हस्तिमल्लेन विरचिते विक्रांतकौरवीयनाटके वाराणसीदर्शनो नाम प्रथमोऽङ्कः समाप्तः ॥ १ ॥
१ इतः इतः ।