SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽङ्कः। द्वितीयोङ्कः ॥२॥ (ततः प्रविशति प्रतीहारः) प्रतीहारः-( शयनादुत्थाय ) कथमस्माभिः समुचित एवावसरे प्रतिबद्धं । प्रातस्तरामेव गंगातीर्थाभिरक्षणाय मया गंतव्यं । यतः पूर्वेयुरेव स्वयंवरदिवसाद्भर्तृदारिकया गंगातीर्थ एव सौभाग्यवृद्धये स्नातव्यमिति कुलवृद्धाभिरादिष्टम् । सौवस्तिके च कस्याः स्वयंवरयात्रा नेदीयसी च संप्रति प्रगतनी संध्या। तथाहि । अनतिगलितनिद्राजाड्यदीव्यद्गलानां प्रसरति कृतहिक्कं कूजितं कुक्कटानाम् । विदधति च विहंगास्तत्क्षणोद्भूतबोधाः कलकलमधिनीडं ग्रामचैत्यद्रुमेषु ॥१॥ तदिदानी गंगातीरमेव गच्छामि ( उत्थाय परिक्रामन् ) इयं खलु अष्टमावशिष्टा किमप्युत्कयति कामुकाननतिचिरविनश्वरी विभावरी।संप्रति हि। चुंबतोऽधरपल्लवं नियमितश्वासं शनैः सुभ्रवां सुप्तानां सभयं सशुष्करुदितं मंझुन्मिषच्चक्षुषाम् । आश्लेषं च ससाध्वसं विरचितं द्रागुज्झतीनां रुषा कुर्वति प्रतिबोधनां प्राणयिनः प्रत्यूषप्रत्युत्सुकाः ॥२॥ इयमेव च निरर्गलप्रणयरसलीलाकामिनामभिमततमा वेला । तथाहि । तत्कालप्रतिबोधिताभिरलसोनिद्रेक्षणाभिः प्रियाः सीदंतीभिररं प्रदोषसुरतश्रांतिश्लथैरंगकैः।
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy