SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽङ्कः । विशारदः – वंचित एवास्मि यात्रादर्शन कौतुकात् । नंद्यावर्तः– सखे मा खेदं करिष्ठाः । सुलोचनास्वयंवरयात्रातः प्राक् पश्चाच्च दिनत्रयं नगरदेवतानामकम्पनेन यात्रा प्रवर्त्यत इति किंवदंती | न खल्वयैव यात्रापूरणं । तद्दर्शिष्यत एव । विशारदः - कदा नु खलु सुलोचना स्वयंवरिष्यति । नंद्यावर्तः इतस्तृतीयेहीति वदंति । विशारदः - भवतु कथाशेष एव कथ्यताम् । ११ नंद्यावर्त :- ततश्व दूरितोत्सारिताशेषजमसंमर्दैः समापतद्भिः प्रतिहारैः परिवारितं मंजशिंजानमंजीरेण मंदप्रक्वणितमेखलागुणेन सलीलभुजलताविक्षेपरणितमणिवलयेन पवनैरप्यालिंगनकुतूहलादिव स्तनांशुकांतप्रवेशिभिः सेव्यमानेन स्तनभरोद्वहनश्रमनिश्वासैरपि रसास्वादलोभादिव निपीयमानाधरेण मणिकर्णिकारत्नकिरणमंजरीकलापेन वचनरसादिव स्पृष्टकपोलतलेन मुग्धहरिणमसृणस्निग्धविप्रेक्षितेन हासोत्तरमधुरभाषितेन शिरीषकुसुमसुकुमारशरीरेण तांस्तांश्च परिच्छदान् गृह्णता वागृह्णता च पादचारिणा स्त्रीलोकेन परिष्कृतं संमुखासीनताम्बूलदायिनीसनाथं मंदमंदसंचारिणापि पुरुषचतुष्टयेनाह्यमानं चतुरंतयानमध्यासीना दर्शनीयानामपूर्वं धाम दर्शनपथमागता कापि स्त्रीसृष्टिः । विशारदः - ततस्ततः । नंद्यावर्तः– अवतिष्ट च ततः काशराजदुहिता सुलोचनेयमिति महान् जनवादः । विशारदः — ततस्ततः । नंद्यावर्तः -- ततश्च कौरवेश्वरस्तामपश्यत् । १ जनश्रुतिः। २ कर्णाभरण । ३ वक्रावलोकनेन । ४ धृतं ।
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy