________________
प्रथमोऽङ्कः ।
विशारदः – वंचित एवास्मि यात्रादर्शन कौतुकात् ।
नंद्यावर्तः– सखे मा खेदं करिष्ठाः । सुलोचनास्वयंवरयात्रातः प्राक् पश्चाच्च दिनत्रयं नगरदेवतानामकम्पनेन यात्रा प्रवर्त्यत इति किंवदंती | न खल्वयैव यात्रापूरणं । तद्दर्शिष्यत एव ।
विशारदः - कदा नु खलु सुलोचना स्वयंवरिष्यति । नंद्यावर्तः इतस्तृतीयेहीति वदंति ।
विशारदः - भवतु कथाशेष एव कथ्यताम् ।
११
नंद्यावर्त :- ततश्व दूरितोत्सारिताशेषजमसंमर्दैः समापतद्भिः प्रतिहारैः परिवारितं मंजशिंजानमंजीरेण मंदप्रक्वणितमेखलागुणेन सलीलभुजलताविक्षेपरणितमणिवलयेन पवनैरप्यालिंगनकुतूहलादिव स्तनांशुकांतप्रवेशिभिः सेव्यमानेन स्तनभरोद्वहनश्रमनिश्वासैरपि रसास्वादलोभादिव निपीयमानाधरेण मणिकर्णिकारत्नकिरणमंजरीकलापेन वचनरसादिव स्पृष्टकपोलतलेन मुग्धहरिणमसृणस्निग्धविप्रेक्षितेन हासोत्तरमधुरभाषितेन शिरीषकुसुमसुकुमारशरीरेण तांस्तांश्च परिच्छदान् गृह्णता वागृह्णता च पादचारिणा स्त्रीलोकेन परिष्कृतं संमुखासीनताम्बूलदायिनीसनाथं मंदमंदसंचारिणापि पुरुषचतुष्टयेनाह्यमानं चतुरंतयानमध्यासीना दर्शनीयानामपूर्वं धाम दर्शनपथमागता कापि स्त्रीसृष्टिः ।
विशारदः - ततस्ततः ।
नंद्यावर्तः– अवतिष्ट च ततः काशराजदुहिता सुलोचनेयमिति महान् जनवादः ।
विशारदः — ततस्ततः ।
नंद्यावर्तः -- ततश्च कौरवेश्वरस्तामपश्यत् ।
१ जनश्रुतिः। २ कर्णाभरण । ३ वक्रावलोकनेन । ४ धृतं ।