________________
विक्रांतकौरवे
गंगातरंगपरिमर्शमनोज्ञशीतैः । स्निग्धामसौ सपदि तोमगमत्समीरैः ॥१८॥ विशारदः-ततस्ततः।
नंद्यावर्तः–प्रविश्य च वाराणसी कचिज्जीर्णोद्यानप्रदेशे तुरंगमवरादवरुह्य तत्रैव छत्रधारिणा अश्ववारेण तुरंगमवरं चावस्थाप्य केवलं साधू मया धनुाहिणा चासिधेनुन कौरवेश्वरः प्रवर्तमाननगरदेवतायात्रां काशीराजपुरीमुपसृत्य कचित्प्रचुरतररथतुरगगजपदातिसंचारदुंगमान मार्गान, क्वचित्कमलकुडमलकोमलांजलिपुंजमंजुलभक्तजनसहस्रसेकुलानि, देवकुलानि क्वचिदुन्निद्रकुसुममकरंदामोदमेदुरपवनान्युपवनानि,क्वचित्प्रचलवीचिनिचयविलुप्य॑मानविकचससिजरजांसि सरांसि, कचित्सुरवनितासायुवतीजनविहाररम्याणि हाणि, क्वचिदंतदृश्यमानकामिनीवदनकांतिवितीर्णकामिजननयनोपायनानि वातायनानि, क्वचित्कृततपनतापनिग्रहाणि धाराग्रहाणि, क्वचिदुल्लोलकल्लोललोलंबनिकुरुम्बकरम्बितप्रांतविराजितमनोज्ञनिष्कुटान, शृङ्गाण्टककूटान कचित्पणपरिणनकुपिताक्षिकरूक्षकंठघोषजितराजसभाः द्यूतसभाः, क्वचिदर्धासनोपविष्टप्रियतमानुवर्तनप्रियान् युवनिकरान्, कचिदुन्मिषन्मकरतोरणनिबद्धरत्नछविशिखाविशिखौः पश्यन् क्रमेण राजभवनगामिनो मार्गान्नातिसंनिकटस्य परिपुष्टपरपुष्टचटुलचंचुविघटितमुकुलितपुटविकीर्यमाणमकरंदबिंदुधाराराजितालवालपरिसरस्य मधुममत्तमधुकरमनोहारिझंकारस्य सहकारस्य तले विविक्तौत्सुक्यान मुहूर्तमासिष्ट ।
विशारदः–ततस्ततः।
नंद्यावर्तः–अत्रांतरे नगरदेवतायात्रातः प्रतिनिवर्तमानस्तेनैव वर्मना प्रवर्तिष्ट गंतुं महान् पौरलोकः ।
१ वाराणसी।२ नाम । ३ नाम । ४ उपगम्य । ५ चैत्यालयानि। ६ स्वीक्रियमाण । ७सदृश । ८ भ्रमर । ९ गृहारामान् । १० समूहान् । ११ रथ्या-प्रतोली १२ सार । १३ आम्रवृक्षस्य ।