________________
प्रथमोऽङ्कः ।
विशारदः-कदा दृष्टा वयस्येन वाराणसी ? । नंद्यावर्तः श्रूयताम् । विशारदः-अवहितोऽस्मि ।
नंद्यावर्तः-इतस्तावन्मार्गश्रमाशथिलगाने प्रतिश्रेयमेव प्रस्थिते भवति कौरवेश्वरस्त्रिचतुराभिरूँपजनपरिवृतस्तास्ताः परिहासमधुराः कथाः कुर्वन कियतीमपि वेलां विनोदगोष्ठीमध्यासिष्ट । ततश्च जरठातपतापोद्रेकसुलभनिद्रालसप्रतप्तसौनकजनसंकुलतरुतले दुस्सहदूष्यकुटीतापताम्यच्छिबिरजने ल्पुष्टपांशुपटलाभितप्तांत्रीपृष्ठे पथिकजनपर्यटनविराममूकाध्वनि नितांतकथितसरस्सलिलतापभयपलायमानजलपतत्रिनिषेवितपत्रलतीरकच्छांतरे निदाघोष्मदुर्निरीक्षान्तारक्षे दुष्यमाणदुस्पर्शमर्मरधर्ममारुतपरिस्पंदे क्रमादतिक्रांते मध्यदिनसमये मध्याह्नतापसंतप्तनभःस्थलावस्थितिमसहमान इव अपरकाष्ठाभिमुखे लंबमाने भगवत्यंबरमणौ जातायां च किंचिच्चरणसंचरणक्षमायां क्षमायां प्रोझंतीषु च पथिकैः समं तरुमूलानि छायासु प्रशांतप्राये दिवसोष्मणि प्रहतायां च तृतीयपंहरावसानशसिन्यां भेर्या प्रवर्तमाननगरदेवतायात्रामुपश्रुत्य वाराणसीदर्शनकुतूहली सार्धमस्माभिरुत्थितो हस्तिनाधिपतिः। - विशारदः-ततस्ततः ।
नंधावर्तः-ततश्च निर्वर्तिताशेषपरिजनः परिमितास्मत्प्रमुखविस्रंब्धजनपरिवारपरिवृतः सुंदरतममणिमंडितवंदनमालालंकृतमकरतोरणां वाराणसीमभिप्रचलितः । विशारदः-ततस्ततः। नंद्यावर्तः-ततश्च ।
अंभोरुहोदरपरिभ्रमलब्धगंधैः संभोगखिन्नयुक्तीश्रमवारिचौरैः। १ सदनं । २ विचक्षण । ३ उष्ण । ४ भूभागे । ५ धरित्र्याम् । ६ याम । ७ श्रुत्वा । ८ निवारित । ९ विश्वसनीय ।