SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ विक्रांतकौरवे (विचिंत्य ) इयं खलु कार्यातरव्यापूतानां पथ्या रथ्या तदितो वयं । (परिक्रम्यावलोक्य च ) इदं कौरवेश्वरभवनं । ( पाश्र्वादालोकितेन ) अये अयमुत्तरेण राजगृहबाह्यालिंदं विस्तीर्णप्रसारितदूष्यपटकायमाननिषण्णः कामपि दर्शनीयतामुद्दहति राजवाहनप्रधानगंधगजः । तथाहि। हरितकलमपूलग्रंथिनासौ सलीलं व्यजनि वदनभागानग्रहस्तोद्धतेन । मृदयति तमभिन्नन कुंचिते चांघ्रिपृष्ठे ग्रसितुमथ गजेंद्रो दंतरंध्रेण धत्ते ॥ १६ ॥ ( अग्रतो दृष्टा ) कथमसौ प्रियवस्यो नंद्यावर्तः प्रतिहारस्थानान्निर्गत इतएवाभिवर्तते । भवतु प्रतिपालयामि । (ततः प्रविशति नंद्यावर्तः ) ( परिक्रम्य ) कथमसौ अनाकलितकोलातिपातः पातयति कामुकानापातदुस्सहायामापदि मदनः । तथाहि । क्षणाद्धैर्यग्रथिं शिथिलयति निर्मथ्य विनयं क्षणाल्लज्जा भंजन क्षपयति विवेकं पदुमपि । क्षणादन्यामन्यां सृजति रुजमंतर्बहिरपि क्षणात्कामः कामं जनयति जिगीषूश्च पुरुषान् ॥ १७ ॥ येन काशीराजतनयादर्शनानंतरमेव कौरवेश्वरस्तादृशीं दशामयासीत् (पुरोऽवलोक्य ) कथमसौ विशारदः प्रतिपाल्य तिष्ठति । तावदुपसँपामि । ( उपसृत्य ) सखे विशारद कुतस्त्वमियती वेलां विलंबितः वंचितः खल्वसि वाराणसीदर्शनात् । १ अकृतकालातिक्रमः । २ प्रारंभे।३ नाशीकृत्य । ४ अनिर्वचनीयं । ५ गच्छामि ।
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy