________________
प्रथमोऽङ्कः।
तथाहि । परिभ्रष्टस्थानात्कथमपि समंतात्प्रचलितैः बलीवर्दो धावन्नयमनुसृतो वाहपितृभिः । मुखप्रोते पाशे विलुठति कथंचित् तद्विधौ
खरपुटलने सपदि निपतन गृह्यत इह ( ? )॥ (परिक्रम्य क्षणं स्थित्वा ) अहोऽयं पौनरुक्त्यविमुखो जनस्यालयः । अय हि। तुच्छच्छायःस देशः स तु विरलजलः सोपि पाथः प्रहीणः सा भूमिः क्षारतोया परुषदृषदसौ शर्करा कर्करा सा। तत् क्षेत्रं कंटकाढ्यं तृणविकलमदस्तत्तु धूलीकरालं छायास्वेवं तरूणामभिदधति मिथः शैबिरों मार्गदुःखम् ॥१३॥ ( परिक्रम्यावलोक्य च ) अहो स्पृहणीयं खल्वेतत् । अत्र हि। प्रच्छायशीतलमहीरुहपादमूलान्यध्यासते प्रियतमांकसमर्पिताङ्गाः । अध्वश्रमार्तनयनं वदनं दधत्यः
कांता वनांतचलिताय समीरणाय ॥१४॥ (परिक्रम्यावलोक्य च ) कथमितो वारस्त्रीणां सद्मानि । अहो असाधारणः खलु वारवनितानां मंडनप्रकारः । कुतः ?
कदा पटकुटी कृता प्रशमितः कदाध्वश्रमः कदा व्यजनि मज्जनं विरचितं कदा मंडनम् । गृहेष्विव पुरः स्थितः परिचितेषु सज्जस्त्वसौ क्व चेष्यति विलासिनीजनममुं जनः कौशलात् ॥ १५॥ १ पाषाण । २ कर्कशा । ३ कथयति । ४ शिविरनिर्मातारः ।