SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽङ्कः। तथाहि । परिभ्रष्टस्थानात्कथमपि समंतात्प्रचलितैः बलीवर्दो धावन्नयमनुसृतो वाहपितृभिः । मुखप्रोते पाशे विलुठति कथंचित् तद्विधौ खरपुटलने सपदि निपतन गृह्यत इह ( ? )॥ (परिक्रम्य क्षणं स्थित्वा ) अहोऽयं पौनरुक्त्यविमुखो जनस्यालयः । अय हि। तुच्छच्छायःस देशः स तु विरलजलः सोपि पाथः प्रहीणः सा भूमिः क्षारतोया परुषदृषदसौ शर्करा कर्करा सा। तत् क्षेत्रं कंटकाढ्यं तृणविकलमदस्तत्तु धूलीकरालं छायास्वेवं तरूणामभिदधति मिथः शैबिरों मार्गदुःखम् ॥१३॥ ( परिक्रम्यावलोक्य च ) अहो स्पृहणीयं खल्वेतत् । अत्र हि। प्रच्छायशीतलमहीरुहपादमूलान्यध्यासते प्रियतमांकसमर्पिताङ्गाः । अध्वश्रमार्तनयनं वदनं दधत्यः कांता वनांतचलिताय समीरणाय ॥१४॥ (परिक्रम्यावलोक्य च ) कथमितो वारस्त्रीणां सद्मानि । अहो असाधारणः खलु वारवनितानां मंडनप्रकारः । कुतः ? कदा पटकुटी कृता प्रशमितः कदाध्वश्रमः कदा व्यजनि मज्जनं विरचितं कदा मंडनम् । गृहेष्विव पुरः स्थितः परिचितेषु सज्जस्त्वसौ क्व चेष्यति विलासिनीजनममुं जनः कौशलात् ॥ १५॥ १ पाषाण । २ कर्कशा । ३ कथयति । ४ शिविरनिर्मातारः ।
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy