________________
१३८
विक्रांतकौरवे
राजा-( सस्मितं ) इदं वर्ण्यते ।
कथं पनसकेवलं सुमधुराणि पुष्पैर्विना फलानि फलता त्वया फलविपाकमूकस्समः। चरच्चदुलचंचरीकचरणाहतोच्चावच
प्रकीर्णसुमनोरजः पटलपाटलः पाटलः ॥७१ ॥ नंद्यावर्तः-शोभनं सुभाषितम् । गंधमालिनी-इदं खु अग्गदो कोमुदीघरअं। नंद्यावर्तः–आर्य सौधातके अग्रतो भव देवस्य । यावदहमत्रैव प्रतिपालयन् तिष्ठामि । विदूषकः-तेह करीअदु । गंधमालिनी-अहंपि अ इदो सहीणिओए वढेमि । विदूषकः-तेण हि तुमं अज्जणंदावत्तस्य सहाआ होहि ।
(गंधमालिनी सस्मितं नंद्यावर्तेन सह निष्कांता) विदूषकः-इंदो इदो पिअवअस्सो।
(परिकामतः) (ततः प्रविशति सुलोचना नवमालिका च ) सुलोचना–संहि णोमालिए सच्चं एव्व तुए दिवो अक्खदसरीरो अज्जउत्तो।
नवमालिका-सँहि कीस संकेसि ण खु सो तारिसो तदो एव्व सवरकलहमीदाए मइ हत्थे तुह दिण्णो भट्टिणा संदेसो । जह । ( संस्कृतमवलंब्य)।
१. एतत्खलु अग्रतः कौमुदीगृहम् । २. तथा करोतु । ३. अहमपि च इतः सखीनियोगे वर्ते । ४. तेन हि त्वं आर्यनंद्यावर्तस्य सहाया भव । ५. इत इतः प्रियवयस्यः । ६. सखि नवमालिके सत्यमेव त्वया दृष्टः अक्षतशरीरः आर्यपुत्रः। ७ सखि कस्मात् शंकसे न खलु स तादृशः तत एव स्वयंवरकलहभीताया मम हस्ते तव दत्तो भर्चा संदेशः । यथा ।