________________
पञ्चमोऽङ्कः ।
१३७
अलंतणोमालिआवासिददसदिसं । जब्भाअंतपुण्णाअमहुरसतराणाअमारूअं । अविरलदलंतकुमुअवणपच्छदसंछण्णसरोवरं वालुज्जाणं । नंद्यावर्तः -- अहो रमणीयता वालोद्यानस्य । अत्र हि
आसवैरनिलमार्द्रयत्यमुं
चारु भासुरयतीह केसरः । सौरभेण सुरभीकरोत्यसौ कौमुदीषु सरसीषु कौमुदी ॥ ६८ ॥
राजा
--
बकुलतरवः सांद्रप्रोत्सर्पकौसुमसौरभाः किमपि सुरभीकुर्वत्येते भ्रमद्भ्रमरं नभः । अथ च कथयाम्येतैर्नक्तं दिवं प्रविकस्वरैः चिरसुरभिभिर्बाद कालोप्यसौ सुरभीकृतः ॥ ६९ ॥
( अन्यतो विलोक्य ) इतोपि च ।
पाटलीजरठकुइमलरंधप्रस्खलद्बहलसौरभलुब्धाः । निर्भरं मधुलिहो लिहतेऽमी धूनिताननममूनि मधूनि ॥ ७० ॥
विदूषकः - भो' वअस्स कुदो एदाइ णिब्भलकुसुमिदाइ पाडलाइ वणाअंते । णिअमूलपलंवपरिपक्खखलिदेहि दीहरबाहुजुअलपरिरंभणिज्जपरिणाहेहि पसरंतसुरभिगंधघुराघुराइदजीहेहिं फलसहस्सेहिं दंसणिज्जो उववणालंकारो तुमे पणसो ण वणिज्जदि ।
1
१. भो वयस्य कुतः एतानि निर्भरकुसुमितानि पाटलानि वर्ण्यते । निजमूलप्रलंबपरिपक्षस्खलितैः दीर्घबाहुयुगलपरिरंभणीयपरिणाहैः प्रसरत्सुरभिगंधघुरघुरायितजिह्वैः फलसहस्रैः दर्शनीयः उपवनालंकारः त्वया पनसो न वर्ण्यते ।