SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ पञ्चमोऽङ्कः । १३७ अलंतणोमालिआवासिददसदिसं । जब्भाअंतपुण्णाअमहुरसतराणाअमारूअं । अविरलदलंतकुमुअवणपच्छदसंछण्णसरोवरं वालुज्जाणं । नंद्यावर्तः -- अहो रमणीयता वालोद्यानस्य । अत्र हि आसवैरनिलमार्द्रयत्यमुं चारु भासुरयतीह केसरः । सौरभेण सुरभीकरोत्यसौ कौमुदीषु सरसीषु कौमुदी ॥ ६८ ॥ राजा -- बकुलतरवः सांद्रप्रोत्सर्पकौसुमसौरभाः किमपि सुरभीकुर्वत्येते भ्रमद्भ्रमरं नभः । अथ च कथयाम्येतैर्नक्तं दिवं प्रविकस्वरैः चिरसुरभिभिर्बाद कालोप्यसौ सुरभीकृतः ॥ ६९ ॥ ( अन्यतो विलोक्य ) इतोपि च । पाटलीजरठकुइमलरंधप्रस्खलद्बहलसौरभलुब्धाः । निर्भरं मधुलिहो लिहतेऽमी धूनिताननममूनि मधूनि ॥ ७० ॥ विदूषकः - भो' वअस्स कुदो एदाइ णिब्भलकुसुमिदाइ पाडलाइ वणाअंते । णिअमूलपलंवपरिपक्खखलिदेहि दीहरबाहुजुअलपरिरंभणिज्जपरिणाहेहि पसरंतसुरभिगंधघुराघुराइदजीहेहिं फलसहस्सेहिं दंसणिज्जो उववणालंकारो तुमे पणसो ण वणिज्जदि । 1 १. भो वयस्य कुतः एतानि निर्भरकुसुमितानि पाटलानि वर्ण्यते । निजमूलप्रलंबपरिपक्षस्खलितैः दीर्घबाहुयुगलपरिरंभणीयपरिणाहैः प्रसरत्सुरभिगंधघुरघुरायितजिह्वैः फलसहस्रैः दर्शनीयः उपवनालंकारः त्वया पनसो न वर्ण्यते ।
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy