________________
विक्रांत कौरवे
गंधमालिनी - ईदोवि एसा वालुज्जाणपरिसरवाहिणी अमरतरंगिणी णाम लीलादिग्धिआ दक्ख देव दिण्णदाणपुण्णपवाहमअक्कपहुज्जला चंदअंतफलअपवहंत णिज्झरपरिमिलिअउम्मिआ उम्मिसंतकुमुदव्य पढिच्छाओंतरिअलोआणइ उपगइ अमअतरंगिणी |
१३६
नंद्यावर्त :- इतोपि दीयतां दीर्घिकापरिसरे दृष्टिः । अत्र हिचंचुदष्टवरटाः कलहंसा:
सैकतां तलिमे च शयानाः । ज्योत्स्नायैव शनकैर्निजशाखाशायिताः पुलकयंति मनांसि ॥ ६६ ॥
राजा - (निर्वर्ण्य ) ।
अमृततरंगिणीनिजतरंगसितासिशतेः शिशिरमरीचिदीधितिनिमीलितपद्मवदना । सरसीरुहां द्विषन्निति विदारयति प्रकटं निपतितविंबमंभसि निशाधिपतिं शतशः ॥ ६७ ॥ विदूषकः - ऐसो इमादा ।
( सर्वे परिक्रामति )
गंधमालिनी - एदं खु महमहिअवहलव उलपरिमलवलइदस अलपमदवणं । विआसुंमहकडोरपाडलामअरंदणिम्महिअसरसगंधबंधुरं । णिब्भरवि
१. इतोपि एषा वालोद्यानपरिसरवाहिनी अमृततरंगिणी नाम लीलादीर्घिका । पश्य देव दत्तदानपुण्यप्रवाहमयैकप्रभोज्जला चंद्रकांत फलकप्रहृन्निर्झरपरिमिलितोर्मिका उन्मिषत्कुमुदेव प्रतिच्छायांतरितलोचनानि उपगृह्णाति अमृततरंगिणी 1 २. एष...। ३. एतत्खलु सुगंधिबहलबकुलपरिमलवलयितसकलप्रमदवनं, विकासोन्मुखकठे।रपाटलामकरंद निर्मथितसरसगंधबंधुरं, निर्भरविकसन्नवमालिकावासितद शदिशं जृंभमाणपुन्नागमधुरसार्दितमारुतं, अविरलदलत्कुमुदवनप्रच्छदसंछन्नसरोवरं वालोद्यानं ।