________________
पञ्चमोऽङ्कः ।
द्वित्रा घटीर्गमय मां प्रतिपालयंती कः कौरवं युधि पुमानभियोक्तुमीष्टे । तच्चारु हासिनि मनागपि नाम शंका मा भूदकंपनसुवासिनि मत्कृते ते ॥ ७२ ॥ सुलोचना -- केहिदं एव्व तुए किंतु समस्सासमेत्तकंति मए विससिदं ।
नवमालिका – जंइ ण विस्ससिसि एहिं एव्व सअं दट्ठूण तं विस्स सेहि । सुलोचना - संहि णोमालिए जइ सच्चं एव अज्जउत्तो इद आअमिस्सदि कहं किर अग्गदो तस्स चिमि ।
नवमालिका – अंदिउज्जए किं इमाए ण कदाइ अवसाणं लज्जाए । सुलोचना - तेणें हि एसा परितेजेमि लज्जं तुमं पुण तस्सिं आअदे अग्दो भविअ मं अंतरेहि ।
नवमालिका--( सस्मितं ) अंतरेमि जइ तुमं णिगलं देसि ।
-
सुलोचना – सहि कीस उवहससि । एसा अहं ह्निकाण तुह उत्तरं ।
नवमालिका – जइ ण मए जप्पसि तेण एव्व वाहिता भणाहि ।
१३९
१. कथितं एव त्वया । किं तु समाश्वासमात्रकमिति मया न विश्वसितम् । २. यदि न विश्वसिसि इदानीं स्वयमेव दृष्ट्वा तं विश्वस । ३. सखि नवमालिके यदि सत्यमेवार्यपुत्र इत आगमिष्यति । कथं किल अग्रतः तस्य तिष्ठामि । ४. अत्युत्सुके किमस्याः न कदाचिदवसानं लज्जायाः । ५. तेन हि एषा परित्यजामि लज्जां त्वं पुनः तस्मिन् आगते अग्रतो भुत्वा मां अंतरय । ६. अंतरयामि यदि त्वं निगलं ददासि । ७ सखि कस्मादुपहससि एषा अहं तूष्णीका न ददामि तवोत्तरम् । यदि न मया जल्पसि तेनैव व्याहृता भणस्व ।
८.