SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ हितीयोऽङ्कः। wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwmanmmmmmmmmmmmmmmmmmmmmmmm (परिक्रम्य निष्कांते) राजा-अहो क्षणदर्शनमपि न सोढव्यमीर्ष्यालुना देवेन । विदूषकः-वअस्स णिच्चिंतो दाणिं होहि । असाहारणो खु तत्तहोदीए तुवम्मि बहुमायो। राजा-अतर्कितोपनतेन च दर्शनेन प्रतिक्षणविधीयमानविभ्रममानेडितं तस्याव्रीडितम् । तथाहि. स्तनतटसमुत्क्षिप्ता मुक्तावली परिवर्तिता। सुनिहितमापत्रष्टुं कर्णोत्पलं प्रहितः करः। विनमितमुखं सख्या सव्याजमंतरितं मुहु मयि च निपतदृष्टौ न्यस्ते दृशौ स्तनचूचुके ॥ ३१ ॥ (विचिंत्य सौत्सुक्यं) अहो अभिरूपं तस्याः प्रियसखी प्रति प्रणयरसाई कुपितं । तथाहि नैवाधरेण स्फुरितं न रक्त विलोचनेन स्खलितं च गत्या । तथापि कोपः परिभावितोऽस्य भिन्नक्रमेणैव निरीक्षितेन ॥३२॥ (अग्रतो विलोक्य सोत्कंठं ) क्षणमिह मदिराक्ष्यामग्रतो मे स्थितायां स्तनतटपरिणाहात्प्रच्युतस्याकुतोपि । पथि च विटपिलग्नस्योत्तरीयांचलस्य क्षणकृतगतिविघ्नस्यैष भूयः स्मरामि ॥ ३३॥ (सांतस्तापं निश्वस्य ) अहो दुर्विषहता प्रियाविरहव्यथायाः। येनानु-- १ वयस्य निश्चिंत इदानीं भव । असाधारणः खलु तत्र भवत्यास्त्वयि बहुमानः।
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy