SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ विक्रांतकौरवे 'पदमेव समुत्पादितसर्वांगीणपरितापा शिरोवेदनामिवापादयति । ( सविशेषोत्कंठं।) भवसि भवसि मूर्धन् सत्यमेवोत्तमाङ्गं यदि सकृदपि तस्यास्सेर्प्यमुत्क्षिप्तपाणेः। रतिकलहविमर्देष्वर्चति त्वां प्रियाया स्स परमपरिहार्यः पारिहार्यप्रहारः ॥ ३४ ॥ विदूषकः-भो वअस्स समासण्णो मज्झाण्हो जाव एहि खंदावारं एव्व गच्छेमो। राजा--( नभो विलोक्य । ) कथं गतमहर्दलम् । -तथाहि । अहमिह सहसानः संगरन् बहभारं तरुविटपनिषण्णस्सेवते स्वापसौख्यम् । श्रयति तपनतापादुत्रसन्नत्र चासो घननलिनपलाशाभ्यंतरं मंदसानः ॥ ३५ ॥ किंच। प्रासादोदरवासगेहतलिमेष्वद्यातपो द्वे जिनचर्चाचंदनकर्दमार्द्रतनुभिः सार्धं प्रियाभिः प्रियाः। क्षौमांतव्यजनैः करव्यतिकराः संविज्यमानैमिथः कुर्वतः सुरतश्रमव्यपनयं तंद्रालवः शेरते ॥ ३६ ॥ विदूषकः-इदो इदो पिअवअस्सो। ( इति परिक्रम्य निष्कांतौ) इति श्रीकवि हस्तिमल्लेन विरचिते कौरवपौरवीयनाटके गंगामज्जन नाम द्वितीयोङ्कः समाप्तः ॥ २॥ १ भो पयस्य समासन्नो मध्यान्हः यावदिदानी स्कंदावारमेव गच्छावः । २ इत इतः प्रियवयस्यः।
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy