________________
नमः सिद्धेभ्यः ।
अथ श्रीमद्धस्तिमल्लकविविरचितं
विक्रान्त कौरव
नाटकम् ।
असिमषिमुखा वृत्तिर्येन क्षितौ प्रकटीकृता भरतमहिपस्सम्राट् यस्यात्मजो भुवनोत्तरः । सुरपमकुटीकोटी-नीराजितांघ्रिसरोरुहः प्रथमजिनपः श्रेयो भूयो ददातु मुदा सदा ॥ १ ॥ ( नांद्यन्ते ) सूत्रधारः --- अलमतिप्रसंगेन मारिष इतस्तावत् ।
( प्रविश्य ) पारिपार्श्वकः भोव अयमस्मि आज्ञापयत्वार्य इति ।
१ भो विद्वन् ।