SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ विक्रांतकौरवे सूत्रधारः - शृणु तावत् । नानादिगन्तवास्तव्यपंडितोखण्डमण्डलमण्डितामिमां परिषेदं प्रार्थितवानस्मि । मारिषः — किमिति । सूत्रधारः - चिराभ्यासपल्लविता मदीयनाट्यशास्त्रविद्या सादरावलोकन सफलीक्रियतामिति । मारिषः – भाव किमर्थमियं प्रार्थना | अधीतैषा विद्या क्रमत इहें पारं च गमिता प्रदत्ता पौत्रेषु प्रथितमनसा तंत्र भवता । यशोमल्लीबल्लीकुसुमसुभगं चाजनि फलॅम् ततः सैषा याची सपदि तव दैन्याय भवति ॥ २ ॥ सूत्रधारः - मारिष सत्यमेतत् । तथापीदं श्रूयताम्एतद्देहानुभाव्ये प्रचुरंधनचये नास्ति कस्यापि तृप्तिः कांतावपि तद्वत्तरुणिमेवयसा केवलेनानुभाव्ये । तस्मात्संजृम्भमाणे प्रसरति च विना देशकालव्यवस्थां कीर्तिस्तोमेऽभिरामे जगति कृतमतेः कस्य वा स्याद्विरक्तिः॥३॥ किंच | अस्मदीयां नाट्यविद्यावैर्शेयोल्लसितां कीर्तिमपहर्तुमुपाध्यायभरताचार्यपुत्रस्संतततंतन्यमानासूयानिवासपदैः नटॉपसदैः प्रतिबोधितः स्पर्धा - माटीकते, तां निर्मूलयितुं च अनितरदुस्साध्यरूपकाभिनयारंभसंरंभ इति । मारिषः - तर्हि युक्तैषा प्रार्थना परिषदा च किमाज्ञप्तमिति । १ विद्वच्छ्रेष्ठ । २ सभां । ३ वृद्धिंगता । ४ नाट्यशास्त्रे । ५ छात्रेषु । ६ पूज्येन त्वया । ७ प्रयोजनम् । ८ प्रार्थना । ९ स्वीकृतशरीरानुभवनयोग्ये । १० अधिकधमसमूहे । ११ स्त्रीसमूहे । १२ यौवनावस्थया । १३ प्राज्ञस्य । १४ विशदीकरणत्व । १५ नर्तकाभासैः । १६ नाटक ।
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy