SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ सूत्रधारः ― प्रथमोऽङ्कः । ३ शृंगारवीरसारस्य गंभीरचरिताद्भुतम् । महाकविसमाबद्धं रूपकं रूप्यतामिति ॥ ४ ॥ मारिषः -- दुर्लभं खल्वीदृशं पारिषदश्रवणलोचनासेचनकं रूपकमिति । सूत्रधारः - ( स्मरणमभिनीय ) आः स्मृतम् । अस्ति किल सरस्वतीस्वयंवरवल्लभेन भट्टारगोविंदस्वामिसूनुना हस्तिमल्लनाम्ना महाकवितल्लजेन विरचितं विक्रांतकौरवं नाम रूपकमिति । मारिषः - अपि तादृशो हस्तिमल्लः । सूत्रधारः सरस्वत्या देव्या श्रुतियुगवतंसत्वमयते सुधासधीचीनां त्रिजगति यदीया सुफणितिः । कवींद्राणां चेतःकुवलयसमुल्लासनविधौ शरज्ज्योत्स्नालीलां कलयति मनोहारिरचना ॥ ५ ॥ किंच 1 कवींद्रोऽयं वाचा विजितनवमोचाफलरसः सभासारज्ञढ्या वयमपि तथा नाट्चचतुराः । कथाप्येषा लोकोत्तरनवचमत्कारमधुरा तदेतत्सर्वं नैः प्रकटतरभाग्येन घटितम् ॥ ६ ॥ मारिषः - वसंतसमयोप्ययं भविस्योपकुरुते प्रचुरविकसितकुसुमशरमयः । सूत्रधारः - युक्तमेतत् । अहो रमणीयता कोमलकिसलयकुलविक - सितवसंतस्य । - १ प्रतिपाद्यतां । २ परिषदि विद्यमान । ३ अतृप्तिकरं । ४ कर्णभूषणत्वं । ५ सदृशा । ६ हस्तिमलसंबंधिनी शोभनावसरणिः । ७ उत्पादयति । ८ कदलीफल । ९ शास्त्रज्ञपरिपुर्णा । १० अस्माकम् । ११ संबंधितं । १२ विदुषः भवतः सहायते ।
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy