________________
विक्रांतकौरवे
पुष्यचूतलताप्रवालकलनामाद्यत्पिकोयत्स्वरा वासंतीलतिकालंतांतविचर गारवाडंबराः । फुल्लाशोकसुगंधबंधुरचरनमंदानिलस्पंदना
यूनामुत्सुकयंति मानसममी वासंतिका वासराः ॥७॥ अलमतिप्रसंगेन तद्यावदिदानीमारभ्यतां संगीतकम् ।
मारिष:-तेन हि किमिति विलंब्यते ( नेपथ्याभिमुखमवलोक्य ) अहो सुलोचनास्वयंवरयात्रामहोत्सवसंदर्शनाय चतुरंगबलेन सह वाराणसी प्रस्थितेन कौरवेश्वरेण सानीतस्य तत्प्रियसुहृदो विशारदस्य भूमिकामादाय रंगत्तरंग इत एवाभिवर्तते । तदावामप्यनंतरकरणीयाय सज्जीभवावः ।
(इति निष्कांतौ)
१ भक्षण । २ कुसुमे । ३. पुष्पित । ४ अनुगतस्य । ५ वेषं । ६ नाम।