SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽङ्कः । प्रस्तावना । CACION ( ततः प्रविशति विशारदः ) विशारदः - ( परितो विलोक्य ) अहो वसंतसमयमोदमानतरुखण्डमण्डितेषु नदीतटेषु मध्याह्नपर्यंतसंचारश्रांतसैनिक जनप्रचुरा निवेशिता एव स्कंधावाराः । अद्य हि । कच्छान् केप्यधिशेरते तरुतलं प्रच्छायमध्यासते केचित्केचन सारणीपरिसरे संस्त्यायैमातन्वते । बनंत्यावसथान् परेथ सरसां रोर्धंस्सु रुद्धोष्मसु ग्रार्मानेति पुरोपकण्ठसुलभानन्यस्तु भूयान् जनः ॥ ८ ॥ ( अन्यतोऽवलोक्य) अहो नैकविधः सैनिकानामनपायः श्रमापहरणोपायः । तथाहि । शीतापाश्चिखनंति केप्यधिनंदं तापार्तितः कूपकान् श्रतिर्भूरिजलावगाहनरसात्पूरः परैर्वार्यते । ५ ढौकंतेऽद्य फलापचायचपला केचित्फलाढ्यान् द्रुमान् कूपापांतभ्रुवो वहंत्युपगतानन्यानुदन्यावतः ॥ ९ ॥ ( अन्यतो दृष्ट्वा ) । कुल्यायामुपशैल्यभूमिषु पुरः प्रोद्यद्विहंगारुतौ ज्योत्स्नास्रोतसि शीतपाय्यसिलतासंबाधरुद्धोष्मणि । १ संतोषजनक । २ जलप्रायप्रदेशान् । ३ अधिवसंति । कुल्यासमीपे । ५ गृहम् । ६ तीरेषु । ७ निवारितौष्णेषु । ८ गच्छति । ९ प्रमादशून्यः । १० नद्याम् । ११ पीडिता । १२ विश्वासात् । १३ प्रापयंति वापारिके । १४ ग्रामतिं ।
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy