________________
१४६
( अन्यतोऽवलोक्य)
इतश्व |
विक्रांतकौरवे
सरोजनी सैकततल्पशायी हंसीं समाश्लिष्यति राजहंसः ॥ ८३ ॥
इयं च रात्रौ विरहव्यथार्ता कथंचिदासाद्य पतिं निशांते । तं सव्यलीकं किल मन्यमाना मुग्धा सुधा रुष्यति चक्रवाकी ॥ ८४ ॥
तिमिरनिकरशत्रोस्त्रस्नवः पद्मबंधोश्शरणमिव समेतास्स पद्मोदराणि । भ्रमरतिमिरकंदाः प्रोन्मिषयोऽम्बुजेभ्यः । सकरुणमिव मुक्ताः सांप्रतं निःपतंति ॥ ८५ ॥ (निष्क्रांताः सर्वे )
इति श्री हस्तिमल्लेन विरचिते सुलोचनानाटके संकेतगृहं नाम पंचमोऽङ्कः समाप्तः ॥ ५ ॥