________________
. षष्ठोऽङ्कः।
१४७
षष्ठोऽङ्कः ॥६॥
color
(ततः प्रविशति प्रतीहारः ।) प्रतीहारः-सुविहितं भोः प्रतिभावता काशीपतिना । येन
तैस्तैश्च समुदाचारैः सुसत्कारपुरस्सरैः।
न परं मोचितो बंधात् पौरवो दुर्ग्रहादपि ॥१॥ किंच।
अनुपमगुणगूर्वी रत्नमालां प्रदाय प्रथमतरममुष्मै सत्कृतिप्रीणिताय । भरतपतिरनेन स्वैरमाराधितोऽभूत् स्वकुलमपि गरिम्णायोजि संबंधसारात् ॥ २॥ अपिच ।
जयश्रियो वीक्षणविभ्रमांजनं द्विषां च कृष्णीकरणं यशःश्रियः ।
मदांबु भूयः क्षरतां महीपतिः - सहस्रमस्मै करिणामदान्मुदा ॥ ३॥ किंच।
अत्याजितत्वरितयानजितश्रमाणां दत्तानि पंचशतकानि करेणुकानाम् । अष्टौ शतानि कलभाः शुभलक्षणाढ्या
श्चत्वारि सत्वरसलीलगताश्च बिक्काः ॥ ४ ॥ अपिच।
श्लाघ्यावर्ताः पंचधाराभियुक्ताः सत्त्वोद्रिक्ताः काशिराजेन दत्ताः।