SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ १४८ विक्रांतकौरवे Prammarmonm प्रांशूच्छ्रायाः षोडशास्मै सहस्रा ण्याजानेया वाजिनश्चाभिजाताः॥५॥ ततश्च । हृदयंगमामनर्धा स रत्नमालामवाप्य चारुगुणाम् । अमनुत भरताच्चतुर्दश रत्नेशादधिकमात्मानम् ॥ ६ ॥ प्रवृत्तं चेदं जगते हिताय रत्नमालाप्रदानं काशीराजस्य । अत्र हि दत्वा किमिच्छकमनेन चिरपदानं दौर्गन्यजातमखिलं जगतो निरस्तम् । दौर्गत्यमीदृशमभूत् सुहिते तु लोके यन्नार्थिनः क्वचिदपि द्रविणेन लब्धाः ॥७॥ इत्थं च निष्कांतारिभूतायां कार्यपदव्यामद्य पुनः काशरािजः सुलोचनां प्रदित्सति कौरवेश्वराय । आज्ञप्तं च युवराजहेमांगदेन, आर्य महेंद्रदत्त अद्य खलु वत्सायाः परिणयनं । तदिदानी प्रवर्त्यतां सिद्धायतनेषु महामहः । प्रगुणीक्रियतां च सकलमन्यत् संविधानकमिति । मया च यथाज्ञप्ति सर्वमनुष्ठितं यावदिदानीं युवराजाय निवेदयामि । (ततः प्रविशति हेमांगदः ।) हेमांगदः-अहो कीर्त्यनुरूपं चेष्टितमपि मेघेश्वरस्य । वाढमिहास्ति न सदृशो हास्तिनपतिना पराक्रमी लोके । येनापवाहितोसौ भरतसुतो दर्पगुरुभरतः । मेघेश्वराय सुलोचनाप्रदानादपि श्लाघ्यं चक्रवर्तिसुताय रत्नमालाप्रदानम् ।
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy