________________
षष्टोऽङ्कः।
तस्या हि
चक्रीकृतं येन जये सुराणां चापं न पृथ्व्याः श्वशुरस्स चक्री। भद्रागुणैः श्लाध्यतमैः सुभद्रा
श्वश्रूश्च विद्याधरलोकसारा ॥ ८॥ प्रतीहारः- ( उपसृत्य ) जयतु युवराजः । हेमांगदः-अपि वर्तितमनुष्ठितम् । प्रतीहारः-सर्व यथानियोगमनुष्ठितम् । हेमांगदः-किंच किंच। प्रतीहारः
पंचोपचारचतुराः परमेश्वरस्य कुर्वति सर्वजगदभ्युदयाय पूजाम् । सूत्राणि कल्मषहराणि पठंति भूयः
संभूय च स्तुतिविशेषविदोऽद्य भव्याः ॥९॥ हेमांगदः-सर्व शुभोद भगवदभ्यर्हणपुरःसरतया । प्रतीहारः-इदं चेदानीम्
प्रलंबलंबूषविभूषितांतमुदावितानैरवदातशोभम् । हिरण्मयस्तंभविटंकनद्ध
प्रकीर्णकं राजति राजवेश्म ॥ १० ॥ इतश्च समंततः संचरत्पर्युत्सुकपुरजनसंकुलमंकुरयति कौतुकं राजकुलं । अत्र हि
सरसबकुलमाला केसराक्लिष्टदष्टेः कुचकलशविलेपैर्घाणमुन्मादयंति।