________________
चतुर्थोऽङ्कः।
८९
हरितमलघु सत्त्वमुन्नतं
पवनजवं गजमांगरेवकम् ॥ ४५ ॥ मंथरकः-को एस जिण्णखंभदीहरपरुससुण्डादंडसहेलाअट्टसम्मदिदसेंधवाणिवहं चप्पपाअपीडणमड्बृत्तिअपाइक्कं रहसपहं जणहत्थिदहत्थिजूहं गंधगइंदं आरूढो कुलूदेसरं अभिजुज्जदि । मंदरः—एष खलु कौरवेश्वरशरीरनिर्विशेषो नंद्यावर्तो नाम प्रियसखः ॥ रत्नमाली-अहो नंद्यावर्तस्य कृतहस्तता । तथाहि । मूनः स्फोटयति द्विषां क्षिपणिभिलोहान् क्षिपन् गोलकान् कुंतैः कृतति शक्तिभिर्विशसति प्रासैविपर्यस्यति । पर्यायेण करद्वयार्पितधनुर्विष्वक शरान वर्षति व्यूहानेष विसास्थया विघटयन विक्राम्य विभ्राम्यति॥४६॥ मंदरः-देव पश्य पश्य । ततश्चाब्दच्छायं प्रथनचतुरं भूरि परितः । स्रवंतं स्रोतांसि प्रवलमखिलश्रांतिसहनम् । असौ नंद्यावर्तस्त्वरयति कलिंगोद्भवमिभं कुलूतानामीशं प्रसभमभियोक्तुं प्रकुपितः ॥४७॥ मंथरकः-कहं दूरदो एब्व णंदावत्तकरविमुक्केण विद्धो वाणेण कुलूदेसरस्स दाहिणो भुअसिअरो।
१ क एष जीर्णस्तंभदीर्घपरुषशुंडादंडसहेलार्पणसमर्दितसैंधवनिवहं विशालपादपीडनमर्दितपादातिकं रसप्रभंजनमर्दितहस्तियूथं गंधगजेंद्रमाकडः कुलतेश्वरममियुध्यते २ कथं दूरत एव नंद्यावर्तकरविमुक्तेन विद्धो वाणेन कुलूतेश्वरस्य दक्षिणो भुजशिखरः।