________________
९०
विक्रांतकौरव
मंदरः- दव पश्य पश्य । रिपुशरमुखखंडिताद्भुजात् समरखरस्य कुलूतभूपतेः । क्षरति रुधिरपूर्णसारणी
सृतिरिव वीररसस्य निस्सृता ॥ ४८ ॥
मंथरकः —— कहं अण्णपेक्खिदवाणघादेण परोप्परदंतर्भाडण खडक्कारमुहरं
झडत संघटदो गओ णंदावत्तगएण ।
रत्नमाली - हंत भोः ।
प्रहतो यो मुखार्द्दतानंद्यावर्तस्य दंतिना । दंती सीदति कौलूतं ह्रेपयन् खर्वितापरः ॥ ४९ ॥ मंदारमाला -- हेत्थि पाडिदो एव्व एसो हत्थिसामंतेण । मंदरः—आशंसोचितमेव लब्धं कौलुतेन । श्रूयतामस्य युयुत्सोः सोत्से
कं वचः ।
अवश्यं कर्तव्यं कतिचिदतिवाद्यापि दिवसानलं विद्युल्लेखाविलसितविलोलैः कदसुभिः । प्रभूतं क्रीणंतु प्रथनविपणौ विक्रमपणैयशस्थास्नु ज्योत्स्नाशुचि रणरुचि व्यग्रमनसः ॥ ५० ॥
मंथरकः - तेण हि सुड्डु णिउऊढं इमिणा णं उइअं ।
मंदरः — देव पश्य पश्य ।
-
भूयिष्ठमग्निशरसंचयसंततांगः
शेते करी रदनरुग्णधरः परासुः ।
१. कथमनवोक्षतवाणघातेन परस्परदंतोत्पीडनकटात्कारमुखरं झटिति संघटितो गजो नंद्यावर्तगजेन । २. हंत पातित एव एष हस्ती सामंतेन । ३. तेन हि सुषु निघूढनेन ननूचितम् ।