________________
चतुर्थोऽङ्कः ।
विभ्रच्छरीरमधिकोच्छ्रितिकोप्यपूर्वः सर्वांगसंगशललः शलली यथैव ॥ ५१ ॥
----------
मंथरकः —–— अंह को एस गमणजवेण सव्वदो संगरंगणं दीसंत आजाणअं तुरगरअणं आरूढो करालकरवालवावडकरो अक्ककित्तिबलंलोलावेदि ।
मंदरः - अयमपि विशारदनामा नंद्यावर्तसमः कौरवेश्वरस्य । रत्नमाली - किं नाम दुष्करमनयोस्सुहृदा कौरव्येण ।
मंदरः
९१
भुजाविमौ द्वौ कुरुनंदनस्य सुदुर्जयौ विक्रमसूत्रधारौ । स्वयं गृहीताहवचेष्टिताभ्यामाभ्याममुष्याह्रियते युयुत्सकाः ॥ ५२ ॥ रत्नमाली – अहो श्लाघनीयं शौर्यचातुर्यकं विशारदस्य । अस्य हि
छिनत्ति स्वच्छंद सरसकदलीच्छेदमधुना तुरंगान्मातंगान् प्रचुरमभितोपि प्रतिभटान् । किरन पेशीराशास्वभिहतिरटत्की कसततीनृशंसो निस्त्रिंशस्त्रिदशयुवतीत्रासरसद्ः ॥ ५३ ॥ मंथरकः - अंध को एस अप्पडिहदगइपसरं गंधवारणं पेल्लंतो विसारदं अभिजुज्जदि ।
१. अथ क एष गमनजवेन सर्वतस्संगरांगणं दृश्यमानमाजानेयं तुरगरत्नमारूढःकरालकरबालव्यापृतकरः अर्ककीर्तिबलं लोलापयति । २. अथ क एष अप्रति-इतगतिप्रसरं गंधवारणं प्रेरयन् विशारदमभियुध्यते ।