________________
विक्रांतकौरवे
मंदरः - एष दाशार्णः संकर्षणः । पश्यतु देवः ।
महामोदमदं युद्धसहमारुह्य पीवरम् । दाशार्णोऽभ्येति दाशार्ण गजं वाजिपुरोषणं ॥ ५४ ॥
९२
AAAA
मंथरकः - केहं दूरदो एव्व विसारदेण संकरिसणगअं उद्दिसिअ विमुको अंतजीहादीहरो पासो ।
मंदरः - हंत भोः ।
मग्नेन निर्याणपथे स दंडप्रासेन भिन्नः प्रथमः प्रभिन्नः । प्रयाति निर्याणमसौ विनिघ्नन दंती दशार्णाधिपतेर्मदांधः ॥ ५५ ॥
मंथरकः- हैद्धि हद्धि |
रत्नमाली - कथमुपेक्षित एवं विशारदेन वाहनविकलो दशार्णवः । साधुविशारद साधु मानभरोद्वहनवैवधिकोसि ।
मंथरकः - अथ को एस अवरो गंधगआहिरूढो तं एव विशारदं अभिजज्जदि ।
मंदरः - एष सौराष्ट्रौ भीमः ।
मंदारमालाः- हर्द्धि हद्धि अजगर भोगभीमेण सुंडादंडेण वेडिदो विसारदतुरंगमो भीमगईदेण ।
रत्नमाली - अहो विशारदस्य वैशारद्यम् ।
१. कथं दूरत एव विशारदेन संकर्षणगजमुद्दिश्य विमुक्तः कृतांतजिव्हादीर्घः प्रासः । २ हा धिक् हा धिक् । ३ अथ क एषो अपरो गंधगजाधिरूढस्तमेव विशारदममियुध्यते । ४ हा धिक् हा धिक्, अजगरभोगभीमेन शुंडादंडेन बंधितो विशारदतुरंगमो भीमगजेंद्रेण ।