SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽङ्कः । ३१ पुंडरीकखंडा चटुलखञ्जरीटकुटिलपदपंक्तिचित्रितपर्यंतसैकततला प्रसादविघटितसौगंधिकगंधसंबंधबंधुरितगंधवाहा नंद तुलितनिर्मलस्फाटिकतटा यति नयनानि मंदाकिनी । तथाहि । वासयति मुहरत्र मूर्च्छता सौरभेण युगपत्समीरणम् । स्पंदमानमकरंदमेदुरान्युत्फलानि च महोत्पलानि च ॥ २० ॥ अपि च क्वचिज्जंबूकुंजप्रतिहतिपरावर्तितजवः क्वचिद् वृत्तावर्तभ्रमवशपरिभ्रांतसलिलः । क्वचिद्रोधःपातद्भुतविघटमानोर्मिनिवहः प्रवाहो जान्हव्याः प्रथयति गभीरं कलकलम् ॥ २१ ॥ इतश्च । विसृत्य लहरीजलं नभसि दूरमत्रोत्थिता विवर्तितनिशातशुभ्रकरवालधारोज्ज्वलाः । झषाश्चदुलचंक्रमात्सपदि मीनकेतोरपि स्फुरंत इव केतवः किमपि कौतुकं तन्वते ॥ २२ ॥ विदूषकः - ( निर्वर्ण्य ) भो वअस्स दक्ख दाव इदो पाडिवचंदकोडि १ हंसविशेषः । २ शीघ्र । ३ भो वयस्य पश्य तावदितः प्रतिपच्चंद्रकोटिकुटिलविकटदंष्ट्राकरालमुखकुहराः समुत्तंभितकर्कशहस्ताः दृश्यंते तरंत इव द्विघंटाः ( गजाः ) । भयपलायितसकलजलचरनिकराः मकराः 1 इतश्च भ्रमणरभसविव्यज्जलविहंगपरिह्रियमाणपरिसराः दीर्घतरपुरुषाक्रंदगर्भिताः दधति सौद्दित्यं । निरंतरभ्रमत्सलिलपूराः पुष्पसत्त्वाः । इतश्च । मज्जनोत्सुकजनावतरणदूरोत्सारितशैवालाः निर्मूलितजंबालाः प्रसादप्रकटप्रीतच्छंदिततीरतरुनिकराः सञ्जिता इव दर्पणा,
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy