________________
द्वितीयोऽङ्कः ।
३१
पुंडरीकखंडा चटुलखञ्जरीटकुटिलपदपंक्तिचित्रितपर्यंतसैकततला प्रसादविघटितसौगंधिकगंधसंबंधबंधुरितगंधवाहा नंद
तुलितनिर्मलस्फाटिकतटा यति नयनानि मंदाकिनी । तथाहि । वासयति मुहरत्र मूर्च्छता सौरभेण युगपत्समीरणम् । स्पंदमानमकरंदमेदुरान्युत्फलानि च महोत्पलानि च ॥ २० ॥ अपि च
क्वचिज्जंबूकुंजप्रतिहतिपरावर्तितजवः क्वचिद् वृत्तावर्तभ्रमवशपरिभ्रांतसलिलः । क्वचिद्रोधःपातद्भुतविघटमानोर्मिनिवहः प्रवाहो जान्हव्याः प्रथयति गभीरं कलकलम् ॥ २१ ॥
इतश्च ।
विसृत्य लहरीजलं नभसि दूरमत्रोत्थिता विवर्तितनिशातशुभ्रकरवालधारोज्ज्वलाः ।
झषाश्चदुलचंक्रमात्सपदि मीनकेतोरपि
स्फुरंत इव केतवः किमपि कौतुकं तन्वते ॥ २२ ॥ विदूषकः - ( निर्वर्ण्य ) भो वअस्स दक्ख दाव इदो पाडिवचंदकोडि
१ हंसविशेषः । २ शीघ्र । ३ भो वयस्य पश्य तावदितः प्रतिपच्चंद्रकोटिकुटिलविकटदंष्ट्राकरालमुखकुहराः समुत्तंभितकर्कशहस्ताः दृश्यंते तरंत इव द्विघंटाः ( गजाः ) । भयपलायितसकलजलचरनिकराः मकराः 1 इतश्च भ्रमणरभसविव्यज्जलविहंगपरिह्रियमाणपरिसराः दीर्घतरपुरुषाक्रंदगर्भिताः दधति सौद्दित्यं । निरंतरभ्रमत्सलिलपूराः पुष्पसत्त्वाः । इतश्च । मज्जनोत्सुकजनावतरणदूरोत्सारितशैवालाः निर्मूलितजंबालाः प्रसादप्रकटप्रीतच्छंदिततीरतरुनिकराः सञ्जिता इव दर्पणा,