SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽङ्कः । दूषितधीरर्क कीर्तिर्धीरनिष्ठुरमभाषिष्ट । अहो आर्यस्य कौरवयशः श्लाघनेो किमप्यनल्पीयः कवित्वं । पश्य कथमिव जलासाराकीर्णतूलौघतुल्याः क्षणविसरणशीला शाश्वतभ्रांतिलोलाः । श्वसनचलननुन्नाः शौर्यभोगावलीना प्रथममिह निधानं कौरवस्यांबुवाहाः ॥ १३ ॥ अथवा किमत्र चर्चया । ख्यातः पराक्रमिषु यद्यपि कौरवोसौ सत्यत्र युद्धनिकषेन गिरः प्रमाणं । आर्यस्तु पश्यतु तदस्य विशीर्यमाणं शौंडीर्यमाशु युधि शौर्यकथासमुत्थं ॥ १४ ॥ ७७ सरलिका:- केहं दुव्विणिदो विअ हत्थसिक्खपि ण गिदि । तदो तदो प्रतीहारः - अमुं च वृत्तांतमुपलभ्य महाराजैः कृतयथोचितकार्यपर्यालोचनो मम हस्ते स्वाभिप्रेतं निवेद्य मामेवार्क कर्तिर्निसृष्टार्थतया प्रस्थापित - वान् । गत्वा च ततोऽहं तत्प्रतीहारनिवेदितस्वागमनश्चक्रवर्तिसूनोः पार्श्वमुपसृत्य समुचितसमुदाचारपुरस्सरमवोचम् । युवराज महाराजस्त्वामाह विनीतो बाल्येपि त्वमसि पितुरेव प्रतिनिधिः परं प्रेक्षानिघ्नः प्रकृतिमनघां मास्म विसृज | परेषां पैशून्यान हि च वचनीयान्मलिनता कियद्वा भिन्नं मे भरत इति हेमाङ्गद इति ॥ १५ ॥ १ कथं दुर्विनीत इव हस्तशिक्षामपि न गृह्णाति । ततस्ततः । २ अकंपनः ३ विवेकाधीनः ।
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy