________________
७६
विक्रांत कौरवे
'वानुषंगेण कलुषेतरमानसोन्मथनमन्थाः पंथाः । कुतश्चामून्यधीतानि परिहृतविवेकयंत्रणानि क्रोधोद्धतिस्वतंत्राणि वचांसि । सा खलु चक्षुष्मत्ता यदुत 'परपरिग्रहगर्हितेषु जनुषांधत्वं कलत्रेषु । सैव च श्रुतिमत्ता यत् किल दुर्दीतजनदुः प्रलपितेषु पुरुषस्योच्चैःश्रवत्वं । स खलु विक्रामति यस्य निसर्गदुमार्गप्रसंगमलीमसैरिंद्रियमलिम्लुचैर्न मुष्यते हृदयं । अभिजातजनहास्यता च भृशयति मानिनो यशस्विताम् । विगीता रणचुंबिता च विवृणोति पुंसामचातुर्यम् ।
किं च
अमुष्मिन् राजर्षो प्रशमशमितस्वांतकुसृतौ न काशीनामीशे तव विगणनासौ गुणवती । पितुश्चैनं नान्यं कलयति मनस्वी तव पिता सुतानप्युद्वृत्तान्न च वृषभसूनुस्स सहते ॥ १० ॥ अपि च । का चेयं संभावना कौरवेश्वरे । सप्ताहं सप्तसप्तिस्थगनकुततमस्तोमविस्तारमग्ने मूर्चापरिप्लवेस्मिन् भरतप्रतिबले विक्लवे प्लाव्यमाने । वर्षतः संततांभः प्लुतिपिहितदिशः पुष्कलावर्तकाद्या येनैकेनाक्रियंत ज्वलनशरमुचा भस्मसात्कारकीर्णाः ॥ ११ ॥
अथ च -
पुरस्सरणमात्रेण श्लाघ्यं चक्रं विशां प्रभोः । प्रायो दुःसाध्यसंसिद्धौ श्लाघते जय एव सः ॥ १२ ॥ सरलिका - दोणिं खु सो णिरवज्जो । तदो किं पडिपण्णं अक्ककित्तिणा प्रतीहारः - ततश्च निरवद्यवचः संतर्जनचरिते क्षत्रियसभे कौरवेश्वरशौर्यातिशयशंसन मसहमान: किमपि सावधीरण इव निरवद्यभाषिते रोष -
१. इदानीं खलु स निरवद्यः । ततः किं प्रतिपन्नमर्ककीर्तिना ।
1