________________
चतुर्थोऽङ्कः।
७५
प्रतीहारः-निसर्गभीषणचेष्टितः सौराष्ट्रो भीमः ससंरंभमवोचत् । का वा चक्रवर्तिन आस्था विशृंखलसंख्यसंघट्टदुर्बले कुरुकाशिबले । तदत्र
आस्तामप्रतिचक्रविक्रमधनः कामं भवान् प्रेक्षकः केमी शौर्यविपर्ययप्रलघवः क्वोति ते कौरवाः युद्धाबद्धधियः पृथपृथक्गमी सज्जा वयं भूरिशः
शत्रूणां दमनाय दुर्दमभुजास्त्वद्भलताकिंकराः ॥ ८॥ इति । सरलिका-तदो तदो। प्रतीहारः-अनंतरं चार्ककीतिरंतःकोपपावकस्य विर्घष इव तत्क्षणप्रसभकीलितारातिकंठान् वर्णानुद्गिरन्नित्थमचीकथत् । अथवा समूलकार्ष नः कषणीया दोषाः। ततश्च-- अध्यस्तशौर्योद्धतमेव मिथ्यामध्यस्थमस्थानकृतातिसंधिं । किमन्यदन्यायपथप्रवृत्तमकंपनं संप्रति कम्ययामि ॥९॥ सरलिका-अझो अच्चाहिदं। प्रतीहारः-शैलीयं मानशालिनाम् । सरलिका-तदो तेंदो। प्रतीहारः-अत्रांतरे पार्श्ववर्ती चक्रवर्तिनवार्ककीर्तेरनुयात्रायां नियुक्तो नीतिमार्गकृतवियो नाम सचिवः साधिक्षेपमवोचत् । यथा । युवराज केयं पृथग्जनसुलभा प्रेक्षापूर्वकारित्वप्रवृत्तिः । किं चेदमात्मवतामनाभमतं । दु:शिक्षितजनदुरुपदेशेषु श्रोत्रादानव्यसनम् । कश्चायं प्राकृतजनप्रवर्तितः पुरुषांतरगुणसमावर्जितचित्तायामाग्रहो योषिति । क चायं परिचितः कलु
१ युद्ध । २ ततस्ततः। ३ कण । ४ अहो अत्याहितं । ५ ततस्ततः ।