SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ ११६ विक्रांतकौरवे कंचुकी-एवमेतत् । न जातु जामातुरसौ जयस्य - पराक्रमः काशिपति धिनोति । धुनोति तूच्चैर्यशसोऽर्ककीर्ते रकीर्तिरेषा भरतात्मजस्य ॥६॥ प्रतीहारी--तदो'तदो कंचुकी-एवमेतत् । अथ साधिक्षेपमवोचत् कौरवेश्वरं काशीराजः । यथा। बद्धं भवानात्मन एव बंधु नाहत्यशंकं भरतस्य सूनुम् । विमुच्यतामेष तदाशु बंधात् समुच्यतां मुग्ध तवापि मोहः ॥ ७॥ अथ च। सुतोऽयमाद्यो ननु चक्रवर्तिन स्सुतावमाने वमतस्स एव हि । इति त्वया डिम्भ न हंत चिंतितं पितुः कुरा नुकरोषि चेष्टितैः ॥ ८॥ प्रतीहारी–सिक्खेदव्वं सिक्खिदो देव्वो कासीराएण । तदो तदो। कंचुकी-ततश्च पुनरपि काशीराजः पौरवं कौरवं चोद्दश्य सोपालंभमवोचत् । अस्थानाभिनिवेशबद्धसमरोत्साहेन तावत्त्वया प्रेक्षापूर्वविधायिनापि न कृतं क्षात्रोचितं पौरव । मोहादित्थमतिक्रमं विदधता संभावनीये जने सत्यं कौरव तत्त्वयापि न कृतं यत्तद्विवेकोचितम् ॥९॥ १. ततस्ततः । २. शिक्षितव्यं शिक्षितो देवो काशीगजेन । ततस्ततः ।
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy