________________
११६
विक्रांतकौरवे
कंचुकी-एवमेतत् ।
न जातु जामातुरसौ जयस्य - पराक्रमः काशिपति धिनोति । धुनोति तूच्चैर्यशसोऽर्ककीर्ते
रकीर्तिरेषा भरतात्मजस्य ॥६॥ प्रतीहारी--तदो'तदो कंचुकी-एवमेतत् । अथ साधिक्षेपमवोचत् कौरवेश्वरं काशीराजः । यथा। बद्धं भवानात्मन एव बंधु
नाहत्यशंकं भरतस्य सूनुम् । विमुच्यतामेष तदाशु बंधात्
समुच्यतां मुग्ध तवापि मोहः ॥ ७॥ अथ च। सुतोऽयमाद्यो ननु चक्रवर्तिन
स्सुतावमाने वमतस्स एव हि । इति त्वया डिम्भ न हंत चिंतितं
पितुः कुरा नुकरोषि चेष्टितैः ॥ ८॥ प्रतीहारी–सिक्खेदव्वं सिक्खिदो देव्वो कासीराएण । तदो तदो। कंचुकी-ततश्च पुनरपि काशीराजः पौरवं कौरवं चोद्दश्य सोपालंभमवोचत् ।
अस्थानाभिनिवेशबद्धसमरोत्साहेन तावत्त्वया प्रेक्षापूर्वविधायिनापि न कृतं क्षात्रोचितं पौरव । मोहादित्थमतिक्रमं विदधता संभावनीये जने
सत्यं कौरव तत्त्वयापि न कृतं यत्तद्विवेकोचितम् ॥९॥ १. ततस्ततः । २. शिक्षितव्यं शिक्षितो देवो काशीगजेन । ततस्ततः ।