SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ - पञ्चमोऽङ्कः । ११५ कंचुकी-महती सा कथा । उपविश्य श्रूयताम् । प्रतीहारी-तेणे हि विजएण वढतं कुमारं पेक्खिअ एसा आअच्छेमि । कंचुकी-भद्रे भद्रसेने निद्रायते इदानीं युद्धपरिश्रांतो देवः । कथितश्चाहं नंयावर्तसौधातकीमात्रपारजनन देवेन, दीयतामियमेका रात्रिर्मे निद्रायितस्य । तत्साधु रक्ष्यतां द्वारदेश इति । प्रतीहारी–तेणे हि पहोवं जाव देवस्स पडिवालेमि । कंचुकी-तेनं हि स्वैरमुपविश्यताम् । प्रतीहारी-जं भवं आणवेदि (उपविश्य)अज्ज वली अंखु मे कोऊहलं समरावसाणादो परं कीरिसो एत्थ उत्तंतोत्ति जाणिदुं । ता भणाहि । कंचुकी-तेन हि श्रूयताम् । प्रतीहारी–अवहिदम्हि ।। कंचुकी-युद्धे यदा तावन्निगृहीतार्ककीर्तिः कौरवेश्वरः प्राविक्षद्वाराणसी तदैव वाराणसीपतिस्सविषादं च ससंभ्रमं चोपसृत्य वैचित्यविधुरोऽवोचत् । शोचस्यवाढं चिरजीवितस्य चिरात्तदेतत्फलमद्य लब्धम् । बद्धोऽर्ककीर्तिस्समरे द्विषेति श्रुतं च दृष्टं च मया यदद्य ॥५॥ प्रतीहारी–महाणुभावो कासीराओ जेण अक्ककित्तिणो पराभवं असहमाणो ण गहिज्जदि। १. तेन हि विजयेन वर्धमानं कुमार प्रेक्ष्य एषा आगमिष्यामि २. तेन हि प्रबोधं यावद्देवस्य प्रतिपालयामि । ३. यद्भवानाज्ञापयति । ४. आर्य बलीयं खलु कौतुहलं समरावसानात् परं कीदृशोत्र वृत्तांत इति ज्ञातुं । तस्मात् भणस्व। ५. अवहितास्मि । ६. महानुभावः काशीराजः येनार्ककीर्तेः । पराभवमसहमानो न गृह्यते । सोति .
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy