________________
विदूषकः - ईदो इदो ।
राजा
पञ्चमोऽङ्कः ।
( सर्वे परिक्रामति )
- ( सोत्कंठं आत्मगतं )
अंगकैरमृतसेकसोदरैमन्मथाग्निमथितस्य ताम्यतः । खेलगामिनिविना विलंबिनां देहि देहि परिरंभणं प्रिये ॥ ३५ ॥
१२७.
( सोच्छ्वासं ) अये द्रष्टव्या स्वैरमय मे काशीराजसुता । अथवैते असकृदनुभूतसुलोचनादर्शनसुखे इदमन्यदक्षिणी प्रार्थये ( ससांत्वनं )
हे लोचने पतिमभूद्युवाभ्यां चिरं प्रियाया वदनारविंदम् ।
पिपास्यमानस्य मयाधरस्य
क्षणं तिरोधानमपि क्षमेताम् || ३६ |
यद्वा । प्रियतमासंभावनायामपराद्धे इमे चक्षुषी नूनं पात्रं बहुमानस्य । तथाहि
aur क्रोधो धैर्य विनयमिति वा सैव शरणं न यांती सा कांता पदमपि युवाभ्यामनुसृतो । दृशौ तां चेल्लप्स्ये दृढमय परिष्वज्य न चिरं युवाभ्यां दास्यामि स्तनतटपरीणाहविहृतिम् ॥ ३७ ॥
अथवा सुदुर्जये इमे मया लोचने । कुतः ।
कुर्यां यद्युपगूहनं मृगदृशोऽनुच्छ्रासमन्नस्तनं नन्वस्ति स्फुरिताधरे मम दृशोः स्वेच्छाविहारो मुखे ।
१. इत इतः ।