________________
१२८
विक्रांतकौरवे
तस्याश्चेदधरं पिबेयमदयं तत्रस्त एवायते
नेत्रे नेत्रविलोभनाय विलुठत्पाठीनपारिप्लवे ॥ ३८ ॥ ( स्पर्श रूपयित्वा ) कथं प्रवृत्ताः एव प्रोषितजनधैर्यभंजननिर्दाक्षिण्या दाक्षिणात्याः प्रभंजनाः । ( सोद्वेगं )।
इतश्चोलीचूडाविचकिलधनामोदसुहृदः सगंधाः कर्नाटीकुचकलशकाश्मीररजसाम् । मुहुर्माहाराष्ट्रीवदनमदिराघ्राणसरसा
नभस्वंतः स्वांतं न हि विरहादाहं विदधति ॥ ३९ । विदूषकः-(पुरो निर्दिश्य ) एदं पमदवणदुवारअंएसा अगंधमालिणी'
(प्रविश्य) प्रमदवनपालिका–जेदु कोरवेसरो। राजा-भद्रे गंधमालिनि आदेशय मार्ग बालोद्यानस्य । गंधमालिनी--इदो इदो।
(सर्वे परिकामंति) नद्यावर्तः-(ऊर्ध्वं विलोक्य निर्वर्ण्य च ) कथमधुना गगनांगणरंग प्रविविक्षोः शशांकशैलूषस्य स्वच्छसुस्निग्धकौशेययवनिकास्तरणश्रियमुद्दहति श्वेतमानः प्राचीमुखे चंद्रिकास्तवकः । तथाहि । हरिकरिकरनिर्यच्छीकरासारगौराः पवनविधुतदूर्वाम्भोधिफेनायमानाः ।
अशरणपरिधावद्ध्वांतदत्तावकाशाः
शशधरकरकंदाः सांद्रयंतींद्रकाष्ठाम् ॥ ४०॥ १. एतत्प्रमदवनद्वारकं । एषा च गंधमालिनी। २ जयतु कौरवेश्वरः। ३. इतइतः