SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ १२६ विक्रांतकौरवे राजा - ततस्ततः । विदूषकः - तदो' अदाए सह पमदवणमग्गेण णिहुदणिहुदं सुदूरं गदं । जहिं अहं वि बहुलमहीरुहसाहासहस्स संवद्धिदादो अंधआरादो भीदमदो अंधो विअ णोमालिआकरं ओलंविअ खलंतचरणजुअलो कह कह दो । राजा - ततस्ततः । विदूषकः - पवि च तदो पच्छाअवउलसहआरपाडलचंप अवेडिअस्स बालुज्जणस्स मज्झे उम्मिसंतचंदमणिबद्धपाअफलअं णाम । तं च दंसा - विअ आअदणं गंधमालिणीए सह आअच्छदेत्ति भणिअ पमदवणपालिआए सह इदो पहाविऊण सअंवि तदो गदा तहिं एव्व तत्तहोदिं कासीअउत्तिं आदुं णोमालिआ । राजा -- साधु वयस्य साधु । क्वासौ प्रमदवनपालिका । विदूषकः - पैमदवणपक्खदुवारे एव्व ठिदा पडिपालेदि । नंद्यावर्तः - सर्व समंजसं । तदुत्थीयताम् । राजा -- यथाह वयस्यः । ( उत्तिष्ठति ) नंद्यावर्तः– आर्य सौधातके आदेशय प्रमदवनमार्गम् । १. ततश्च तया सह प्रमदवनमार्गेण निभृतं सुदूरं गतं । यस्मिन्नहमपि बहुलमहीरुहशाखासहस्रसंवधिता दंधकाराद्भीतभीत अंध इव नवमालिकाकरमवलंब्य स्खलच्चरणयुगलः कथं कथमपि गतः । २. प्रविष्टं च ततः प्रच्छायवकुलसहकारपाटलचंपकवेष्टितस्य वालोद्यानस्य मध्ये उन्मिषचंद्रमणिबद्धपादफलकं कौमुदी - गृहं नाम । तच्च दर्शयित्वा आपतनं गंधमालिन्या सह आगच्छतेति भणित्वा प्रम पालिका सह इतः प्रस्थापयित्वा स्वयमपि ततो गता तस्मिन्नेव तत्र भवतीं काशीराजपुत्रीमानेतुं नवमालिका । ३. प्रमदवन पश्चाद्द्वारे एव स्थिता प्रतिपालयति ।
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy