SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ षष्ठोऽङ्कः। शुद्धविष्कंमः। (ततः प्रविशति यथानिर्दिष्टो राजा सह नंद्यावर्तविशारदाभ्याम् ) राजा-(सौत्सुक्यं आत्मगतं ) अहो रमणीयविषमता नववधूविभ्रमस्य । यत्र हिकरस्पर्शोद्भिः पुलकमुकुलैः स्वेदसरसैः परिव्यक्तिः प्रेम्णः प्रणयपरिणामाद्विकसिताः। न दृष्टस्तिर्यग्भिर्न खलु परिरंभैरमृदुभिः . न संजल्पैः स्निग्धैर्न च वदनचंद्वैरुपहृतैः ॥२३॥ इदं च तत्र मोहनमुत्सुकायमानस्य मनसः । यदुत । वचः किंचिद्वक्राभिलषति निर्गुतुमसकृत स्फुरनंतर्लमस्थितितधरोष्ठः स्फुटयति । यतेते रज्यंतौ न खलु न दृशौ द्रष्टुमपि नस्त्रपाते रुंधाना चलयति कुतोपि त्वसहना ॥२४॥ किं च तत्र वर्ण्यते । प्रत्यालिंगनतोपि यत्र सुखदा स्रस्तावमुक्तौ करौ . वक्रंदोरपहार एव सरसो यत्रोपहारादपि । यत्र स्वादुरुदंचतोपि वचसो निश्वास एवाकुलः सोऽयं प्राणसमासमागमरसः प्राथम्यरम्यक्रमः॥२५॥ नंद्यावर्तः–इत इतो देवः। (परिक्रामंति) विशारदः-सखे नंद्यावर्त पश्य देवदर्शनलालसस्य पर्युत्सुकता विलासिनीलोकस्य ।
SR No.090536
Book TitleVikrantkauravam
Original Sutra AuthorN/A
AuthorHastimall Chakravarti Kavi, Manoharlal Shastri
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year1916
Total Pages182
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy