________________
१५२
विक्रांतकौरवे
द्वितीयः
हताः कौलूताद्याः खरसमरसंमर्दमृदिताः स्थिरारुढग्रंथिर्भरतसुतमानोप्यपहृतः। यशो येन स्वच्छ मुहुरपहृतं सीम सुदिशा सुदुर्वारो धीरः कुरुकुलकुमारो विजयते ॥२०॥
(उभावाकर्णयतः) हेमांगदः-किमेतत् ।
प्रतीहारः-युवराज सोयमाक्लप्तकौतुकस्य प्रवेशः कौरबेश्वरस्य । ( अग्रतो निर्दिश्य ) युवराज इतः समाराधय चक्षुषी ।
लक्ष्मी विलासमणिदर्पणसंनिभेन राकामृगांकशुचिनातपवारणेन । आभाति सातिशयमात्मयशःप्रतान
शुभ्रेण चामरयुगेन च कौरवेन्द्रः ॥ २१ ॥ यश्च
आनाभिलंबितरलप्रतिबंधशोभी प्रत्युप्तमौक्तिकहिरण्मयकर्णपत्रः । अच्छिन्नचंदनसमालभनावभासी
देहप्रभाकवलिताभरणप्रभो यः ॥२२॥ हेमांगदः-(विलोक्य ) अहो औदार्यमाहार्यस्य । आर्य गच्छामस्तातपादांतिकं । प्रतीहारः-इत इतो युवराजः ।
(परिक्रम्य निष्कांतौ)