________________
चतुर्थोऽङ्कः।
.
८५
रत्नमाली-नन्वयमागतः सर्वमेतद्विदित्वा वाराणसी प्रति प्रहितो मंदरः।
(प्रविश्य ) मंदरः-जयतु देवः । रत्नमाली-अयि मंदरक किमधिगताखिलप्रवृत्तिरसि। . मंदरः-देव सर्वमेव विदितं मे कर्तव्यं जनस्य । रत्नमाली-तेन हि शृणुमः । मंदरः-देव किं बहुना। जित्वा कौरवमाहवे नृपसुतां हर्तु प्रतिज्ञातवान् औद्धत्येन स पौरवः शमयितुं तस्योद्धति कौरवः। द्वैतेस्मिन् प्रशमी स काशिनृपतिः प्रोज्झन् द्वयोः पक्षतां संप्रेक्ष्यात्मन औचितीं दुहितरं रक्षनू पुरेऽवस्थितः॥ ३३ ॥
रत्नमाली-अहो जामातृत्वमपि कौरवेश्वरस्य नावेक्षितं माध्यस्थैकरुचिना काशीपतिना । अथ सर्वमन्यद्राजकं कथमवृतत् । अथवा किमत्र प्रश्नेन । न खलु हातुं प्रभवंति चक्रवर्तिसूनोः पक्षतां सर्वेप्युर्वीभृतः।
मंदरः- एवमेतत् । किंतु एक उज्जयनीपतिर्जयंताश्चरविरूढसौहार्दचोदितः कौरवस्य पक्षतां प्रत्यवादि। ' रत्नमाली-बलीयो हि प्रभविष्णुताया अपि सौहार्दम् । मन्थरकः-अथ किं पडिवण्णं विज्जाहरेहिं । मंदरः
विशां प्रभोरात्मजमर्ककीर्तिपैतृष्वसेयं सुनमिः प्रपन्नः । मेघप्रभोऽभूत्पविचिंत्य मातृवस्त्रीयतामस्य जयस्य गृह्यः॥ ३४॥
१ अथ किं प्रतिपनं विद्याधरैः ।