________________
विक्रांतकौरवे
रत्नमाली--युक्तमेतत् । क पुनरन्ये । मंदरः
स यत्राभूद्विद्याधरमुकुटसंघट्टकषणकणत्पीठीकोणस्सुनमिरधिपो राजतगिरेः। उदीच्यो भूपोपि त्वरितमथ संभूय सकल
स्तदायत्तस्तत्तत्वयमजनि विद्याधरजनः ॥ ३५ ॥ रत्नमाली–तदप्युपपन्नम् । मंदरः-ततश्च सर्वेपि निर्वाणारस्यः समासाद्य समस्थिरा निरुत्वातिनीमप्पंककंटकादिदूषितां युद्धभूमिं सुविभक्तकक्षपक्षोरस्यान्यनीकानि व्यूह्यामी संप्रस्थिता । पश्यतु च देवः ।
चक्रव्यूह विभज्यास्ते योसौ रथमधिष्ठितः । स चक्रवर्तिनस्सूनुरर्ककीर्तिः पराक्रमी ॥ ३६ ॥ विभज्य मकरव्यूहं योसौ स्यंदनमास्थितः।
स कौरवो जयः कात्या साक्षान्मकरकेतनः ॥ ३७॥ इतोपि । विभज्य गरुडव्यूहमध्यास्ते सुनमी रथम् ।
मेघप्रभोऽमुं व्यूहेन दुर्जनं विजिगीषते ॥ ३८॥ इतोपि।
सुकेतुः प्रविभज्यास्ते व्यूहं पारिपतंगकम् । तं व्यूह्य सर्वतोभद्रं जयंतो विजिगीषते ॥ ३९ ॥ मंथरकः-कह इमेहि समआलवज्जतकंसिकंसालजअघंटिसंखसिंग
१. कथमेताभ्यां समकालवाद्यमानकांस्यकांस्यतालजयघंटाशंखशृंगकाहलतुर... तुरीडमरुकढिमिलडिंडिममर्दलदुंदुभिकरडपटहहुडं कुडुं ढक्का भेरी भंगाप्रभृति भूरि