________________
चतुर्थोऽङ्कः ।
८७.
काहला तुरुतुरीडमरुअडिमिलडिंडिममद्दलदुंदुभिकरडपडहहुड्कुटुंडुक्काभेरीभंगापहुदि भूरिवज्जभंडतुमुलकोलाहलवहलणिग्योसणिव्विग्धविअणडिअकोऊहलपेल्लिदेहिं झडंति डक्किअसअलगअणाभोअपेरंतो परोप्पराहि विमुक्को दुवेहि बलेहि संगामणाडअपुवरंगकुसुमंजलिसरणिअरो। मंदरः-देव पश्य पश्य ।
निशितधवलधारास्तिग्मरोचिर्मरीचिप्रतिफलितफलांतावेगदी?पलब्धाः । निविडमभिपतंतस्संततोल्का कराला
गगनमनवकाशं पत्रिणश्चित्रयंति ॥ ४० ॥ (विलोक्य) कथमधुना
इषूणामन्योन्यप्रतिहतिषु लब्धप्रसृतिभिः स्फुटज्योतिश्चक्रस्खलनविनिकीर्णोड्डरुचिभिः । स्फुरंतीभिः प्लोषग्लपितशरपक्षाभिरभितः
स्फुलिंगाभियोमस्फुटमनलवृष्टिं नटयति ॥४१॥ मंदारमाला-कहं दाणिं सरसहस्सवारिदसत्तिपाससंघट्टभीसणो चलंतदोघंटघडाकरालो पअदृततुरअच्छटभअंकरो ओवडंतसंदणसंदोहभआणवो बट्टेदि रोमहस्सणो जुद्धसंमद्दो ।
वाद्यभांडतुमुलकोलाहलवहलनिर्घोषनिर्विघ्नोत्पादितकौतूहलप्रेरिताभ्यां झटिति स्थगितसकलगगनाभोगपर्यंतः परस्पराभ्यां विमुचो द्वाभ्यां बलाभ्यां संग्रामनाटकपूर्वरंगकुसुमांजलिशरनिकरः । १ कथमिदानीं शरसहस्रवारितशाक्तपाशसघंभीषणः पलद्विषघटाकरालः पर्यटत्तुरगच्छटाभयंकरोऽवपतत्स्यदनसंदोहभयानको वर्तते रोमहर्षणो युद्धसंमदः ।