________________
१६२
विक्रांतकौरवे
प्राप्तो मनोरथपदाभ्यधिकः प्रमोदो
भूयं प्रियं मम किमस्ति गवेषणीयम् ॥ ५६ ॥ तथाप्येतद्भवतु ।
भूयाद्भूतेषु धर्मप्रकृतिरसुवतां निष्प्रकंपानुकंपा धर्म्य पात्रे विसृष्टयै व्ययनियतिवशादार्जयंत्वर्थमार्याः । संतानस्थापनायै विदधतु गृहिणः कामखेदापनोदं चेष्टतां चात्मनीना निरुपधिशुचये मोक्षसौख्योदयाय ॥ ५७ ॥
महाराज : -- एवमस्तु ।
वयं च
संवित्प्रकाशकौटस्थ्यमयीं मायातिलंघिनीम् । अपवर्गस्य पदवीं त्रयीमाराधयामहे ॥ ५८ ॥ ( निष्क्रांताः सर्वे )
इति श्रीगोविंदभट्टस्वामिनः सूनुना श्रीकुमारसत्यवाक्यदेवरवल्लभोदयभूषणानामार्यमिश्राणामनुजेन कवेर्वर्द्धमानस्याग्रजेन कविना हस्तिमल्लेन विरचितः कौतुकबंधो नाम षष्ठोऽङ्कः समाप्तः ॥ ६॥