________________
षष्ठोऽङ्कः।
सोमः सौम्यत्वयोगादविरिति च विवुस्तेजसां सन्निधानाद्विश्वात्मातीतविश्वः स भवतु भवतां भूतये भूतनाथः ॥५२॥
महाराजः-इयं च ते वत्स निसर्गसिद्धेष्वर्थेषु क्षत्रियोचितमाचरितुं पुनरुक्तमाशास्महे ।
चतुयायी वृत्तः कुलमनघमव्याकुलमवनिहामुत्रापायादमलगुणमात्मानमव च । प्रजाः स्वास्त्रायस्व स्वमिव कुमतादूषितमतिः
परं सामंजस्यं भज सदसतां रत्यरतिदम् ॥ ५३॥ राजा-एष गृह्णामि पूज्यपादस्य शिक्षाम् । नंद्यावर्तः-राजर्षे इयमस्माकं विज्ञप्तिः।
मनुःप्राजापत्यः प्रथमतरमेतद्युगमुखे चरित्रं क्षत्राह यदवदधीति श्रुतिशते अमुष्मिन् निस्तंद्रः कुरुपतिरसौ साधु चरितं तथाप्येषा शिक्षा स्थिरयति परं प्रीणयति च ॥ ५४॥ विशारदः-राजर्षे साधु विज्ञप्तममुना । किंच ।
पुष्णंति कामितविशेषमनीषितार्थमायादयंति दुरितापगमं जनस्य । युष्मादृशां प्रशमपूतसमाधिभाजामाज्ञाक्षराणि शिरसा पठितानि तानि ॥ ५५ ॥ महाराजः-महाभाग किं ते भूयः प्रियमुपहरामि । राजासंबंधमीदृशमपास्य नवीकृतोसावस्मास्वनल्पशुभपंक्तिरनुग्रहो वः । ११